________________
॥१०४॥
उत्तराप्ययनसूत्रम् प्रकाक्षिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ २९२ ॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी॥ खामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ॥ २९३ ॥ गुरुर्जगाद चमरी-संज्ञा पलीह विद्यते ॥ धरणीधरनामासी-झिल्लेशस्तत्र दुर्धरः ॥ २९४ ॥ अन्यदा नृपमूः कश्चि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, मिलेशो मिल्लवृन्दयुक् ॥ २९५ ॥ नाशिते भिलचके च, कुमारेण तरखिना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम्॥२९६॥ ततः कुमारः खां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीद्भिलभूपतिम् ॥ २९७॥ कुमारेच गते पञ्च, सोदराः शबरप्रभोः ॥ तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ॥ २९८ ॥ ततस्ते वैरशुद्यर्थ, रयाध्यानमनुश्रिताः ॥ प्राप्ताः शङ्खपुरेऽद्राक्षु-स्तं कुमार भटैर्वृतम् ॥ २९९ ॥ कुमारमारणच्छिद्रं, वीक्षमापश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥ ३० ॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्याजना तां च, कुमारो ज्ञातवान् मृताम् ॥ ३०१ ॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥ ३०२ ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः॥ विमुच्य कामिनी तत्र, कुमारो वह्नये ययौ ॥ ३०३॥ चिरालब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अनागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०॥ अन्यान्निवाये चतुरः, चतुरश्छमकर्मणि ॥ तद्विघातैकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ ३०५ ॥ विस्मेरकौतुकः
१ तौ चिरं चक्रतुयुद्धं । इति 'ग' संज्ञकपुस्तके ।। सोऽथ, तज्जायारूपमीक्षितुम् ॥ चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥ ३०६ ॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्ती मे, मरिष्यामि न चेदहम् ॥ ३०७ ॥ मुग्धे ! त्वां कामये काम, बिभेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् ॥ ३०८ ॥ अधुनाहं हनिष्यामि, खपतिं तव पश्यतः॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥ ३०९ ॥ अचिन्तयञ्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति !॥ ३१० ॥ हरिद्रारागया तन्मे, कृतमानयानया ॥ विषवल्लीमिव क्रूरो-दो नारी हि कः श्रयेत् ? ॥ ३११ ॥ अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ॥ ३१२ ॥ तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ ३१३ ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ खकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ ३१४ ॥ खपाणिस्थज्वलद्वढे, प्रकाश इह सङ्गमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥ ३१५ ॥ अथ पल्याः प्रदायासिं, तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ ३१६ ॥ तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपानुजः ॥ अपहस्तेन हत्वासिं, पातयामास भूतले ॥ ३१७ ॥ तच्च स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥३१८॥कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् ॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥ ३१९ ॥ अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ॥ अहो ! तन्मनसां क्रूर-भावो व्याघ्रादिजित्वरः ॥ ३२० ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥ ३२१॥ यः प्रेम्णा मन्यते वामाः, खप्राणेभ्योऽपि वल्लभाः ॥ अध्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥ ३२२ ॥ अपि वारांनिधेरापो, गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत का सुधीः१॥३२४॥ तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया ॥ अहारि तयशो हारि,कुलञ्च मलिनीकृतम् ॥३२५॥ यहा विवेको वैराग्य, पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः ॥ ३२६ ॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना !॥ ३२७ ॥ ध्यात्वेत्यादि गुरूनत्वा, जगादैवं नृपाङ्गजः ॥ खामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ ३२८ ॥ अहं ह्येषां भ्रातृषाती, तस्सा दुष्टस्त्रियाः पतिः ॥ निर्विण्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ॥ ३२९ ॥ सद्यः प्रसद्य तन्मयं, दीक्षा दत्त मुनीधराः ! ॥ ऐहिकामुष्मिकानन्त- सुखाकुरसुधापगाम् ! ॥ ३३० ॥ ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य सः॥ सुदुस्तपं तपस्तावा, क्रमान्निर्वाणभागभूत् ॥ ३३१॥ यथा चायं सुधीद्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या च, नावश्यत कथञ्चन ! ॥ ३३२ ॥ प्रान्ते च भावतो जान-त्परत्राप्यभवत्सुखी ॥ अन्योप्येवं द्विधा जान-दुभयत्र सुखी भवेत् ॥ ३३३॥ इति सुन्दरभूपनन्दनर्षे-श्चरितं चित्रकरं निशम्य सम्यक् ॥ भविकैः शिवकां