________________
उत्तराप्ययनसूत्रम्
॥१०॥ भूपीठ-न्यस्तशस्तखमस्तकः ॥ २४८ ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः ॥ तमालिंग्य निवेश्याके, मूर्ध्नि जौ मुहुर्मुहुः ॥ २४९ ॥ उत्तम्भितध्वजे बद्ध-तोरणे खपुरे च तम् ।। प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ॥२५०॥ ततो गतो गृहेऽनंसी-स सवित्री वधूयुतः ॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ॥ २५१ ॥ भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यो, सर्वेषां विस्मयायहम् ॥ २५२ ॥ ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कश्चिदत्यगात् ॥ २५३ ॥ अन्यदानगभूपाज्ञा-वर्तिनं जनयन् जनम् ॥ दुमान् विभूषयन् सर्वान् , मानवानिव यौवनम् ॥ २५४ ॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझंकार-मुखरीकृतदिग्मुखः ॥ २५५ ॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन र्तत मधूत्सवः ॥ २५६ ॥ [ त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताद्वानमिव, वातोडूनद्रुपल्लवैः ॥ २५७ ॥ समं मदनमंजर्या, तत्रागाद्भपभूरपि ॥ सविस्मयं सकामं च, पौरदारैर्निरीक्षितः॥२५८॥ दोलान्दोलनपानीय-क्रीडापुष्पोचयादिभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥२५९ ॥ रामं रामं यथाकाम, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः, समं पौरैः पुरे ययौ ॥ २६ ॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्वा यावत्पुरे व्रजेत् ॥ २६१॥ तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगि उत्सङ्गेन्यपतत्पत्यु-र्दष्टाहमिति वादिनी ॥ २६२ ॥ ततो मंत्रादिभिर्याव-तां चिकित्सति भूपभूः ॥ तावत्सा गरलव्यापा-मूञ्छिताऽभूदचेतना ॥ २६३ ॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः ॥ रुरोद रोदसीकुक्षिम्भ. रिभिः परिदेवनैः ॥ २६४ ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, वहेरप्यतिरिच्यते ॥ २६५॥ तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया ॥ खल्पा हि ससते पीडा, भूरिपीडापहा बुधैः ॥ २६६ ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्वलयामास सोऽनलम् ॥ २६७ ॥ तावत्तत्र तुद्वों, देवाद्विद्याधरोत्तमी ॥ इत्यूचतुश्च त सद्य-स्तहुःख वीक्ष्य दुःखिती ॥ २६८॥ हुताशे होतुमास्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित् , प्राणिनां प्राणिताते ! ॥ २६९ ॥ कुमारः माह कान्ता मे, विपन्ना पन्नगादियम् ॥ विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥ २७० ॥ जीवयावो जीवितेशां, तव तन्मा मृथा घृथा ॥ इत्युक्त्या मंत्रितैर्नीरैः, खेचरौ तामसिञ्चताम् ॥ २७१ ॥ ततः सा वीतनिद्रेव, विकसलोचना खयम् ॥ संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ २७२ ॥ अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥ २७३ ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥२७४ ॥[ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः॥ आत्ताः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥ २७५ ॥ तावदालोकमद्राक्षी-मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशवं, स कान्तामिति पृष्टवान् ॥ २७६ ॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! ॥ दृष्टो महानिहालोकः, सोऽधुना किं न दृश्यते ? ॥ २७७ ॥ सा प्रोचे खकरस्थस्य, वहेर्दीतस्य वायुना ॥ आलोक इह संक्रान्तो, दृष्टो भावी प्रिय ! त्वया ॥ २७८ ॥ ततः प्रियायै दत्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावन्नृपाङ्गजः ॥ २७९ ॥ तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्घातो, विद्युद्दण्ड इवाम्बुदात् ॥ २८ ॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ॥ २८१ ॥ संमोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपत्तत्पाणेः, कृपाण इति साऽब्रवीत् ॥ २८२ ॥ ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च ॥ प्रातर्जायापती स्वीय-सौधे तौ मुदितौ गतौ ॥ २८३ ॥ वृत्तान्तं तं च बन्धूना-मूचतुः खेदहर्षदम् ॥ सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ॥ २८४ ॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ॥ निन्येऽरण्येऽपहत्याशु, वक्रशिक्षितवाजिना ॥ २८५ ॥ तत्रयं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसमाऽऽगतं दिवः ॥ २८६ ॥ चैत्यस्य तस्य पार्षं च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ॥ २८७ ॥ प्रतिव्रातः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥ २८८ ॥ भासमानो गुरुगुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥ २८९ ॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति- ना धाम्ना रविं जयन् ॥ २९० ॥ [ चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ २९१॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारि