________________
॥ १०६ ॥
उत्तराध्ययनसूत्रम् ।
प्यनुवर्त्तते । ॥ १५ ॥ ततो धनिगृहे क्वापि कृत्वा क्षात्रं मलिम्लुचः ॥ आकृक्षत्सारवस्तूनि मानुसूनुरसूनिव ॥ १६ ॥ त सर्व पस्कन्दी, शिरस्यारोप्य भूपतेः ॥ पुरस्कृत्य च तं कृष्ट- कृपाणो भूगृहं ययौ ॥ १७ ॥ मध्ये भूमिगृहं भूप- मानीयोत्तार्य बीवधम् ॥ क्षालयाऽस्यातिथेः पादाविति जामिमुवाच सः ॥ १८ ॥ ततः कूपोपकण्ठस्थे, पीठे सा विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-तस्य पादमुपाददे ॥ १९ ॥ तावत्तन्मृदुतामन - जित्वरीमनुभूय सा ॥ मदिराक्षी मृदूभूत-चित्ता चित्ते व्यचिन्तयत् ॥ २० ॥ एष सत्पुरुषो भुक्त- पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भारवाहस्य, पादस्पर्शो हि नेदृशः ! ॥ २१ ॥ नरोत्तमममुं तन्न, कूपे क्षेप्स्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच मनखिनी ॥ २२ ॥ कूपेऽत्र बहवः क्षिप्ताः पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिम्ना वशीकृता ! ॥ २३ ॥ ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि ॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः ! ॥ २४ ॥ तन्निशम्य वलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास - व्यग्रे चौरे ननाश ः ॥ २५ ॥ गते च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया - ऽनुभूपं सोप्यधावत ॥ २६ ॥ तं सन्निकृष्टमाकृष्टकृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्थाचत्वरस्थ - पाषाणस्तम्भसन्निधौ ॥ २७ ॥ कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति ॥ कंकासिना दृपत्स्तम्भं, छित्त्वा तं खगृहे ययौ ॥ २८ ॥ पाटचरो जानुबद्धा-पलेपार्द्रपटचरः ॥ प्रातश्व तुन्नकारत्वं, गत्वा राजपथे व्यधात् ॥ २९ ॥ भूपोपि खगृहे गत्वा ऽतिवास रजनीं च ताम् ॥ तं द्रष्टुं निरगाद्वाज-पाटिकाकपटाद्बहिः ॥ ३० ॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः ॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातबान् द्रुतम् ॥ ३१ ॥ दध्यौ च निशि वाजीव, यो जवेन व्रजन्नभूत् ॥ स एवायं दिने खअ, इव व्याजेन चेष्टते ! ॥ ३२ ॥ स्ववेश्मनि ततो गत्वा ऽभिज्ञानाख्यानपूर्वकम् ॥ तमाकारयितुं क्ष्मापः, प्राहिणोन्निजसेवकान् ॥ ३३ ॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥ न हतः स नरो नून-मुत्तालेन मया निशि ! ॥ ३४ ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यभिजानीया - जानिः कथमन्यथा १ ॥ ३५ ॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः ॥ तञ्चोपाविविशद्भूपो, महाबुद्धिर्महासने ॥ ३६ ॥ आलापयन् सुधाकल्पै - स्तञ्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ॥ ३७ ॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्मगृहाद्वहिः ॥ तत्स एवायमित्यन्त- र्निश्विकाय स तस्करः ॥ ३८ ॥ खसा मे गृह्यतां खामि - न्नित्यूचे च धराधवम् ॥ नृपोपि चारुरूपाढ्या - मुपयेमे तदैव ताम् ॥ ३९ ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ४० ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बहुमानयद्भूयो - ऽप्यन्यदानाययद्धनम् ॥ ४१ ॥ एवं पुनः पुनः कुर्वे - स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि कार्य बुद्धधैव कुर्वते ! ॥ ४२ ॥ कि न्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्स्वसार- मप्राक्षीच क्षमाप्रभुः ॥ ४३ ॥ धनमेतावदेवाभूद- स्येत्युक्ते तया च राष्ट्र ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ ४४ ॥ मण्डिकञ्च प्रचण्डाज्ञो विडम्ब्य निविडं नृपः ॥ शूलामारोपयत्पाप - कारिणां हि कुतः सुखम् १ ॥ ४५ ॥ यथा चायं मूलदेव - नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ! ॥ ४६ ॥ एवं मुनीन्द्रैरपि भूरिदोष-निदानमप्यङ्गमुदारसत्यैः ॥ आनिर्जरालाभमपेक्षणीय - मुपेक्षणीयं च ततोऽन्यथात्वे ॥ ४७ ॥ इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ॥ ७ ॥ सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातंत्र्येणैव १ उतान्यथेत्याह
मूलम् -छंद निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी ॥
पुवाईं वासाईं चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ ७ ॥
व्याख्या - छन्दोनिरोधेन स्वच्छन्दतानिषेधेन उपैति मोक्षं मुक्तिं, अयं भावः - गुरुपारतंत्र्येण स्वाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि संक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतंत्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं - "छठ्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं ॥ अकरितो गुरुवयणं, अनंतसंसारिओ होई ॥१॥" तत्सर्वथा गुरुपरतंत्रेणैव मुनिना भायं उक्तञ्च" नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ ॥ घण्णा आवकहा ए, गुरुकुलवासं न मुंचति ॥ १ ॥” अत्र दृष्टान्तमाह- 'आसे' इत्यादि - अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्ष ग्राहितो, वर्मधारी सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतंत्रतया स्वातंत्र्यापोहमाह, ततोयमर्थः - यथाश्वः स्वातंत्र्यं विहाय प्रवर्त