________________
॥ १०० ॥
उतराष्यमनसूत्रम् ।
॥ ११६ ॥ पेटाचोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केना - ऽप्यदृष्टः स पिशाचवत् ॥ ११७ ॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तु न युज्यते ! ॥ ११८ ॥ किञ्च नियं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ।। ११९ ॥ तन्नायमधुनामा, घ्यायनृपाङ्गजः ॥ तमन्त्रयासीद्दक्षो हि, नौत्सुक्यं कुरुते क्वचित् ॥ १२० ॥ सर्वेष्वथ पुरोद्यान -मागतेषु मलिम्लुचः ॥
कुमारमद्यापि बहुका विद्यते निशा ॥ १२१ ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा सर्वै - ववधोद्वहनश्रमः ॥ १२२ ॥ आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलादक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥ १२३ ॥ अन्योन्यं हन्तुमिच्छन्तौ विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ! ॥ १२४ ॥ भारवाहास्तु ते श्रान्त-सुप्सा विश्रन्धचेतसः ॥ तीत्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ! ॥ १२५ ॥ उत्थाय स्रस्तराहक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥ १२६ ॥ अप्रमते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणिर्निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ १२७ ॥ निहत्य भारिकास्तांश्च, कुमारं यावदैक्षत || आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ॥ १२८ ॥ पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक ! ॥ चिरं कृतस्य पापस्य फलमाप्नुहि साम्प्रतम् ! ॥ १२९ ॥ इत्युक्त्वा गच्छतस्तस्य, पादौ खङ्गेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा - पतञ्चौरस्ततो भुवि ॥ १३० ॥ प्रोचे चैवं परित्यक्तजीविताशो नृपाङ्गजम् ॥ अहं मुजङ्गमाह्वान - श्रौरोऽभूवं महाबलः ॥ १३१ ॥ इह रसशाने भूम्यन्तः सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, 'वीरमती' संज्ञा कुमारिका ॥ १३२ ॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां मुलोचनाम् ॥ १३३ ॥ मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥ तामुदुह्याखिलं द्रव्य - माददीधा मदर्जितम् ॥ १३४ ॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ १३५ ॥ तस्मिन्मृते तु तत्खङ्गं, लात्वा गत्वा वटान्तिके ॥ शब्दिता तेन सम्भ्राता, सा द्वारमुद्घाटयत् ॥ १३६ ॥ तां च दृष्ट्वा जगन्नेत्र कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व - मिति दध्यौ नृपात्मजः ॥ १३७ ॥ सौम्य ! कस्त्वं किमर्थं वा - SS यासीरिति तया च सः ॥ पृष्टोऽवादीद्यथा वृत्तं, ततः सान्तरदूयत ॥ ॥ १३८ ॥ कृतावहित्था प्रोचे च, खामिनेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ १३९ ॥ अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च ॥ इत्युदी - ff धूर्तासा, वासवेश्मोदघाटयत् ॥ १४० ॥ तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीद्रवमानये ॥ १४१ ॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचि - न्तयत् ॥ १४२ ॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषतस्तु नारीणा - मरीणां च विचक्षणैः ॥ १४३ ॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ १४४ ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय तस्थौ सुन्दरनन्दनः ॥ १४५ ॥ बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते ॥ इत्यूर्द्ध तस्य तल्पस्य न्यस्ता यंत्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु - खस्रा यंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्चूर्ण, तां शय्यां शरकाण्डवत् ॥ १४७॥ ततो मया हतः सुष्ठु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ॥ १४८ ॥ कपटैरपि मां हन्तु -माः ! पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येकिं बडवावहि - र्घनैरपि घनाघनैः १ ॥ १४९ ॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम सः ॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ १५० ॥ अथ धैर्यनिधेस्तस्य, मुखाब्जमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश - मारुरोह नभोमणिः ॥ १५१ ॥ भूपाभ्यर्ण ततो गत्वा, निशावृतं निवेदयन् ॥ इतो दस्युः स्वसा तस्या - ऽऽनीतेयमिति सोऽब्रवीत् ॥ १५२ ॥ मेदिनीमन्दिरं तथा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्खामिनामदात् ॥ १५३ ॥ निजाङ्गजाञ्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप - स्तचरित्रैश्चमत्कृतः ॥ १५४ ॥ शतं गजेन्द्रान् ग्रामांथ, सहस्रमयुतं हयान् ॥ लक्षं पदातीन्निष्कांश्च तस्मै प्रयुतमार्पयत् ॥ १५५ ॥ पौरा अपि पुरीदस्यु - हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च यद्वा केन न पूज्यते १ ॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ नस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमंजरीम् ॥ १५७ ॥ प्राप्तोऽपि भूपतेः पुत्रीं लक्ष्मीं कीर्त्तिञ्च भूयसीम् ॥ तां नोदतारयच्चित्ता - दहोमोहोऽति दुस्त्यजः ! ॥ १५८ ॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताssसना चोपविशत्पुरः ॥ १५९ ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि