________________
उत्तराप्ययनस्त्रम्
॥१.१॥ तवान्तिके ॥ १६० ॥ तयेत्युक्तं च हे कान्त !, मां वियोगामितापिताम् ॥ निजसङ्गमगोशीर्ष--द्रवैर्निर्वापय द्रुतम् ॥ १६१ ॥ अन्यच मत्तमाता-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ १६२ ॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्याति विस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कुन्छाद्दधाति सा ॥ १६३ ॥ [ युग्मम् ] श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया । ॥ १६४ ॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने!॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ! ॥ १६५ ॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समीहितम् ! ॥ १६६ ॥ इत्युक्त्वा सुलसासूनुदुतिकां विससर्ज ताम् ॥ सापि प्रामुमुदत्तस्य, वाक्यैर्मदनमंजरीम् ॥ १६७ ॥ अन्येषुः करभारूढौ, तत्पितुः सेवकाबुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ १६८ ॥ तौ चालिजय दृढं बाष्प-जलाप्लावितलोचनः ॥ सोनाक्षीकशलं ? पित्रो-स्ततस्तावित्यवोचताम ॥ १६९ ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदर्शनं भावि, तदा तूर्ण मरिष्यतः ! ॥ १७० ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातो, तत्र तद्गन्तुमुत्सहे ॥ १७१ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥ १७३ ॥ ततः पुर्या बहिः सेनां, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ॥१७४॥ यामिन्याः प्रथमे यामे, रहस्तां दूतिका प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥ १७५ ॥ सेना प्रस्थाप्य नृपभू- रथेनैकेन तिष्ठति ॥ कृते मदनमंजर्या-स्तत्तामानय सत्वरम् ॥ १७६ ॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमंजरी ॥ पार्श्वे भूपभुवो हर्षो-स्फुलाङ्गाऽऽगात्सखीयुता ॥ १७७ ॥ सोपि रागामयक्षीण-दाक्ष्यमन्दाक्ष. लोचनः ॥ स्यन्दनेध्यारोपयत्ता-महो सर्वकषाः स्त्रियः ! ॥ १७८ ॥ सोय प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ १७९ ॥ गच्छन् प्रयाणैरच्छिन्न-देशमुल्लंघ्य भूभृतः ॥ कुमारः पादपाकीर्णी, प्रापदेकां महाटवीम् ॥ १८० ॥ प्रमद्वरान्नरान् गर्जा-रपैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद्धनागमः ॥ १८१ ॥ ऋतौ तत्रापि राट्पुत्रः, पित्रोः सजन्तुमुघतः ॥ न तस्थौ क्वापि चकाङ्ग, इव मानसमन्तरा ॥ १८२ ॥ तत्रारण्ये ब्रजत्तस्य, सैन्यं च बहु मिलवान् ॥ रुरोध कोपि भिलेशः, स्रोतोवेगमिवाचलः ॥ १८३ ॥ तद्भिः प्रबलैभिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं ननाश द्राग्, मेघवृन्दमिवानिलैः ॥ १८४ ॥ सैन्ये नष्टेपि सुलसा-सुतः प्राज्यपराक्रमः ॥ युक्तो मदनमंजर्या, रथेनैकेन तस्थिवान् ॥ १८५ ॥ युध्यमानश्च तद्भिल-बलं प्रबलमप्यलम् ॥ स शरैररुपदुद्राव, ध्वान्तमशुरिषांशुभिः ॥ १८६ ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुःखयम् ॥ युद्धाबाढौकत क्रोध-दष्टोष्ठो निठुरं झुवन् ॥ १८७ ॥ घोराघातनिर्घोषै-खासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तैः, कुर्वाणो व्योमि मण्डपम् ॥ १८८ ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नमहिना ॥ अननं विधुदुद्योतं, दर्शयन्तौ मुहुमुहुः ॥ १८९ ॥ साश्चर्य वनदेवीमि-/क्षितौ वीरकुअरौ ॥ ततस्तौ चक्रतुणा-बाणि तुल्यबलौ चिरम् ॥१९॥ [त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, सतो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसा तस्मा-छलेनापि जयाम्पमुम् ॥ १९१ ॥ विमृश्येति धराधीश-सूनुर्मदनमंजरीम् ॥ कारितोदारशृङ्गारां, पुरः खस्स न्यवीविशत् ॥ १९२ ॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णवाणेन, इन्मर्मणि जघान तम् ॥ १९३ ॥ ततः स मिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत् ॥ १९४ ॥ अहं हि स्परवीरेण, हतपूर्वस्त्वया हतः ॥ तन्मयायं हत इति, स्मयं मास्म कृथा वृथा ॥ १९५ ॥ इत्युदीर्य मृते तस्मिन् , भूपभूः खपरिच्छदम् ॥ प्रेक्षमाणोपि नैशिष्ट, नंष्ट्वा कापि गतं तदा ॥ १९६ ॥ एफेनैष स्पन्दनेन, ततो गच्छन्नपाङ्गजः ॥ उल्लंघ्य तामरण्यानी-मेकं गोकुलमासदत् ॥ १९७ ॥ निर्गत्य गोकुलाच हौ, पुरुषो तमपृच्छताम् ॥क यास्यतीति स साह, यामि शङ्खपुरे सहम् ॥ १९८ ॥ आवामपि त्वया सार्घ-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टोवादीदोमिति भूपभूः ॥ १९९ ॥ रथे चाची योजयन्तं, तमेवं तावबोचताम् ॥ अस्त्र मार्गे कान्तारं, क्रूरचापदसङ्कलम् ॥ २०॥ चौरो दुर्योधनाहान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती विषधे, व्यालो व्याघ्रश्च दारुणः ॥२०१॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥ २०२॥ प्रोचे कुमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ॥ २०३ ॥ तच्छुत्वा