________________
उत्तराप्ययनसूत्रम् । कुमारोऽय, गाढमुष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूणे, कुमारमभिकुअरः ॥ ७४ ॥ तत्पृष्ठस्थः स्वयं भ्राम्यन् , प्रहरंस्तं च मुष्टिभिः ॥ चक्रभ्रमेणाभ्रमयत्, कुमारस्तु द्विपं चिरम् ॥ ७५ ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसामजः ॥ आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ॥ ७६ ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मयमानशे ॥ ७७ ॥ सूर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोयमियुर्वी-नाथोऽपृच्छञ्च वेत्रिणम् ॥ ७८ ॥ वेत्री प्रोचे प्रभोऽमुष्य, वेनि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्यपार्थे दृष्टोस्त्ययं मया ॥ ७९ ॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥ समभ्यर्थ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ॥ ८०॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ॥ ८१॥ तेनाहूतः कुमारोऽपि, बड्वालाने मतगजम् ॥ साशङ्कः क्षमापतेः पार्थे, ययौ लोकैः कृतस्तुतिः ॥ ८२॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ॥ तावदा लिङ्गयभूपस्त-मुपावेशयदासने॥ ८३ ॥ तं च पश्यन्नृपो दध्यो, पुरुषो बयमुत्तमः ॥ एतादृशो भवेदस्मि-न्विनयः कथमन्यथा ? ॥ ८४ ॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः फलैः ॥ नमन्ति विनयेनैव, तद्वदुत्तमपूरुषाः॥ ८५ ॥ ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥ ८६ ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपागजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ. कलासु सकलाखपि ॥ ८७॥ किन्तु सन्तो न भाषन्ते, सतोपि खगुणान् हिया ॥ इत्यसौ मौनमाधत्ते, कुमारो गुणसेवधिः ॥ ८८ ॥ इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः ॥ ८९ ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः ॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा ॥९०॥ अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् ॥ खामिनियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥ ९१ ॥ सा तस्करेण केनापि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥ ९२ ॥ ततोब्रवीत्पुरारक्ष- मेवं क्रुद्धो नराधिपः ॥रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ ९३ ॥ पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः॥ ममान्वेषयतश्चौरं, न तु प्रापं करोमि किम् ? ॥ ९४ ॥ अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् ॥ समादिशत मां खामिन् !, यथा गृह्णामि तस्करम् ॥ ९५ ॥ सप्तभिर्वासरैश्चौरा-ऽलाभे त्वमौ विशाम्यहम् ॥ ततोतिविस्मितः क्ष्मापः, स्माह साधय कामितम् ! ॥ ९६ ॥ ततोभिनम्य भूजानि-मनुद्विममनाः खयम् ॥ बभ्राम भूपभूधौर-वी. क्षायै परितः पुरीम् ॥ ९७ ॥ मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च ॥९८ ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं कचित् ॥९९॥ [युग्मम्] सप्तमेऽहि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ॥ मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ।। १०.॥ तत्तामादाय वामाक्षीं, क्वचिदन्यत्र याम्यहम् ॥ यद्वा खयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ॥१०१॥ प्रतिज्ञापालन
१ मध्येसप्तदिनं चौरा-लाभे त्वग्नौ विशाम्यहम् ॥ इति 'ग' संज्ञकपुस्तके ॥ वीर- नराणां हि महानतम् ॥ शिरश्छेदेऽपि तद्वीरः, खांप्रतिज्ञां न मुञ्चति !॥ १०२ ॥ ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा-दपराहे पुराबहिः ! ॥ १०३ ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ
भ्रष्टः खेचरेन्द्र इवापश्यहिशोखिलाः॥१०४॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ॥१०५॥ रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ-मजिनोद्धद्धपिण्डिकम् ॥१०६॥ तं वीक्ष्य मापभूनून-ममीभिर्देहलक्षणैः॥ तस्करोयमिति ध्यायन् , परिवाजेत्यभाषत ॥१०७॥ [युग्मम् ] कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे १॥ ततः कुमारो धिषणा-धिषणस्तमदोवदत् ॥ १०८॥ दारिद्यविद्रुतः शून्य-खान्तः खामिन् ! भ्रमाम्यहम् ॥ परं पराभवस्थानं, विशां दारिद्यमेव हि !॥१०९॥ अद्य छिनमि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः!॥११०॥ तदा चोरुनभोमार्गो-लंघनोत्थश्रमादिव ॥ पश्चिमाम्भोनिधौ तूर्णं, मजति स्म नभोमणिः ॥१११॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्धा परिकरं च सः॥प्रोचे कुमारमेोहि, यथा कुर्वे तवेहितम् ! ॥ ११३ ॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ॥ क्वचिदिभ्यगृहेऽकार्षीत्यानं श्रीवत्ससंस्थितम् ॥ ११४ ॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बढी, वित्तापूर्णाः समाकृषत् ॥ ११५॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्सान्देवकुलादिषु