________________
*५६
देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपेतः
[ गाथा
न्ति । तथाहि--औदारिकतैजसकार्मणबन्धननाम १ वैक्रियतैजसकार्मण बन्धननाम २ आहारकतै जसकार्मणचन्धननाम ३ । अर्थ : पूर्वोक्त एव । न केवलमेषामौदारिकादीनामितरद्विकसहितानामेव त्रीणि बन्धनानि भवन्ति, किन्तु " तेसिं च" त्ति त्रीणीति शब्दो डमरुकमणिन्यायादत्रापि योज्यः । ततोऽयमर्थः – तयोश्चेतरशब्दवाच्ययोस्तैजसकार्मणयोः स्वनाम्ना इतरेण च योगे त्रीणि बन्धनानि भवन्ति । यथा - तैजसतैजसबन्धननाम १ तैजसकार्मणबन्धननाम २ कार्मणकार्मणचन्धननाम ३ | तदेवं नव त्रीणि त्रीणि च मिलितानि पञ्चदश बन्धनानीति ।
अत्राह - पञ्चानां शरीराणां द्विकादियोगप्रकारेण षड्विंशतिः संयोगा भवन्ति, तत्तुल्यबन्धनानि च कस्मात् न भवन्ति ? उच्यते - औदारिकवैक्रियाहारकाणां परस्परविरुद्धाऽन्योऽन्यसम्बन्धाभावात् पञ्चदशैव भवन्ति, नाधिकानि ।
आह-यथा पञ्चदश बन्धनानि भवन्ति, एवमनेनैव क्रमेण पञ्चदश सङ्घाता अपि कस्मात् नाभिधीयन्ते ? सङ्घातितानामेव बन्धनभावात्, तथाहि पाषाणयुग्मस्य कृतसङ्घातस्यैवोत्तरकालं वज्रलेप लादिना बन्धनं क्रियते, तदसत् यतो लोके ये स्वजातौ संयोगा भवन्ति तएव शुभाः, एवमिहापि स्वशरीरपुद्गलानां स्वशरीरपुद्गलैः सह ये संयोगरूपाः सङ्घातास्ते शुभा इति प्राधान्यख्यापनाय पञ्चैव सङ्घाता अभिहिता इति ।। ३६ ।।
,
व्याख्यातानि पञ्चदशापि बन्धनानि । सम्प्रति संहनननाम षड्विधमभिधित्सुर्गाथायुगलमाहसंघयणमडिनिचओ, तं छडा वज्जरिसहनारायं ।
तह रिस नारायं, नारायं अडनारायं ॥ ३७ ॥
कोलिय छेव इह, रिसहो पट्टी य कोलिया वज्जं । उभओ मक्कडबंधो, नारायं इममुलगे ।। ३८ ।।
संहन्यन्ते- दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम्, तच्च 'अस्थिनिचयः, कीलिकादिरूपाणामस्थ्नां निचयः-रचना विशेषोऽस्थिनिचयः । तत् संहननं 'पधा' परप्रकारैर्भवति । तद्यथा--वज्रऋषभनाराचं १ तथा ऋषभनाराचम् २ इहानुस्वारोऽलाक्षणिकः, नाराचम् ६ अर्धनाराचं ४ कीलिका ५ सेवासम् ६ । 'इह' प्रवचने 'ऋषभः' ऋषभशब्देन परिवेष्टनपट्ट उच्यते, 'वज्र' वज्रशब्देन कीलिकाऽभिधीयते, 'नाराचं' नाराचशब्देनोभयतो मर्कटबन्धो भण्यते । 'इदम्' अस्थिनिचयात्मकं संहननम् 'औदारिकाङ्गे' औदारिकशरीर एव, नान्येषु शरीरेषु, तेषामस्थिरहितत्वात् । इति गाथायुगलाक्षरार्थः । भावार्थः पुनरयम् -- इह द्वयोरस्थ्नो
१०कारं क० ख० ग० ङ० ॥