________________
३५-३६ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
व्यवस्थापयति तद् वैक्रियसङ्घातननाम २ | यदुदयाद् आहारकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन व्यवस्थापयति तद् आहारकसङ्घातननाम ३ | यदुदयात् तैजसशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन व्यवस्थापयति तत् तैजससङ्घातननाम ४ | यदुदयात् कार्मणशरीरत्व परिणतान् पुद्गलानात्मा सङ्घातयति - अन्योऽन्यसन्निधानेन व्यवस्थापयति तत् कार्मणसङ्घातननाम ' ५ इति ।। ३५ ।।
उक्तं पञ्चधा बन्धनानाम पञ्चधा सङ्घातननाम । सम्प्रति "संते वा पनरबंधणे तिसयं" इति (३०) गाथा सूचितं बन्धनपञ्चदशकं व्याचिख्यासुराह
ओरालविव्वाहारयाण सगतेयकम्मजुत्ताणं ।
नव बंधणाणि इयरदुसहियाणं तिन्नि तेसिं च ।। ३६ ।।
५५
औदारिकवैक्रियाऽऽहारकशरीराणां नव बन्धनानीति योगः । कीदृशानां सताम् ? इत्याह'स्वक तैजस कार्मणयुक्तानाम्, प्रत्येकं 'स्वकतैजसकार्मणानां मध्यादन्यतरेण युक्तानामित्यर्थः । "नव" त्ति नवसङ्ख्यानि बन्धनानि बन्धनप्रकृतयो भवन्तीति । औदारिकवैकियाहारकाणां त्रयाणामपि प्रत्येकं स्वनाम्ना तैजसेन कार्मणेन च योगाद् द्विकसंयोगनिष्पन्नान्येकैकस्य औदारिकादेस्त्रीणि त्रीणि बन्धनानि भवन्ति तेषां च त्रयाणां त्रिकाणां मीलने नव बन्धनानीति । तथाहि – औदारिक औदारिकबन्धननाम १ औदारिकतैजसबन्धननाम २ औदारिककार्मणबन्धननाम ३, वैक्रियवैक्रियबन्धननाम १ वैक्रियतैजसवन्धननाम २ वैक्रियकार्मणवन्धननाम ३, आहारकाऽऽहारकबन्धननाम १ आहार कतैजसबन्धननाम २ आहारककार्मणवन्धननाम ३ । तत्र पूर्वगृहीतैरौदारिकशरीर पुद्गलैः सह गृह्यमाणौदारिकपुद्गलानां बन्धो येन क्रियते तद् औदारिकौदारिक बन्धननाम १ । येनौदारिकपुद्गलानां तैजसशरीरपुद्गलैः सह सम्बन्धो विधीयते तद् औदारिकतैजसबन्धननाम २ । येनौदारिकपुद्गलानां कार्मणशरीरपुद्गलैः 'सह सम्बन्धो विधीयते तद् औदारिककार्मणबन्धननाम ३ । एवमनेन न्यायेनान्यान्यपि बन्धनानि वाच्यानि । शेषबन्धननिरूपणायाह - " इयरदुसहियाणं तिनि" त्ति इतरे - स्वकीयनामापेक्षयाऽन्ये तैजसकार्मणशरीरे, ततः प्राकृतत्वादन्यथोपन्यासेऽपि द्वे च ते इतरे च द्वीत रे
२
सहितानि - युक्तानि द्वीतरसहितानि, यद्वा "दु" त्तिद्विकं तत इतरच्च तद्विकं चेतरद्विकं तेन सहितानि इतरद्विकसहितानि तेषां द्वीतरसहितानाम् इतरद्विकसहितानां वा, औदारिकवैक्रियाहारकाणामत्रापि योज्यम्, त्रीणि बन्धनानि भवन्ति । अयमाशयः --- प्रत्येक मौदारिकवैक्रियाहारकाणां तैजसकार्मणाभ्यां युगपत् संयोगे त्रिकसंयोगरूपाणि त्रीणि बन्धनानि भव
१ स्त्रस्वत० क० घ० । २ - ३ ०६ बन्धो खः ग० ङ० ॥