________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा निबद्धबध्यमानास्तेषां 'निबद्धबध्यमानानां' पूर्वबद्धानां बध्यमानानां च य कर्म 'सम्बन्धं' परस्परं मीलनं करोति दारूणामिव जतु, अत एव जतुसमं तद् औदारिकादिबन्धनम् , आदिशब्दाद् वैक्रियबन्धनम् आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनं 'ज्ञेयं' ज्ञातव्यमिति गाथाक्षरार्थः । भावार्थस्त्वयम्-इह पूर्वगृहीतैरौदारिकपुद्गलैः सह परस्परं गृह्यमाणान् औदारिकपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्मा अन्योन्यसंयुक्तान् करोति तद् औदारिकशरीरबन्धननाम दारुपाषाणादीनां जतुरालाप्रभृतिश्लेषद्रव्यतुल्यम् १ । पूर्वगृहीत क्रियपुद्गलैः सह परस्परं गृह्यमाणान् वैक्रियपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसमं वेक्रियशरीरबन्धननाम २। पूर्वगृहीतराहारकशरीरपुद्गलैः सह परस्परं गृह्यमाणान् आहारकपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसममाहारकशरीरबन्धननाम ३ । पूर्वगृहीतेस्तैजसपुद्गलैः सह परस्परं गृह्यमाणांस्तैजसपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यमयुक्तान् करोति तद् जतुसमं तेजसशरीरबन्धननाम ४ । पूर्वगृहीतः कार्मणपुद्गलैः सह परस्परं गृह्यमाणान् कार्मणपुद्गलान् उदितेन येन कर्मणा बध्नातिआत्माऽन्योऽन्य संयुक्तान् करोति तद् जतुसमं कार्मणशरीरबन्धननाम ५ । यदि पुनरिदं शरीरपश्चकपुद्गलानामोदारिकादिशरीरनाम्नः सामथ्याद्गृहीतानामन्योऽन्यसम्बन्धकारि बन्धनपञ्चकं न स्यात् ततस्तेषां शरीरपरिणतौ सत्यामप्यसम्बन्धत्वात पवनाहतकुण्डस्थितास्तीमितसक्तूनामिवे कत्र स्थैर्य न स्यादिति । ३४ ।। उक्तं बन्धन स्वरूपम् । इदं च बन्धननाम असंह-- तानां पुद्गलानां न सम्भवति, अतोऽन्योऽन्यसनिधानलक्षणपुद्गलसंहतेः कारणं सङ्घातनमाह
~ जं संघायइ उरलाइ पुग्गले तणगणं व दंताली।।
तं संघाय पन्ध णमिव तणु नामेण पंचविहं ।।३५ ।। यत् कर्म 'सङ्घातयति' पिण्डीकरोति औदारिकादिपुद्गलान् आदिशब्दाद् वैक्रियपुद्गलान् आहारकपुद्गलान् तेजसपुद्गलान कार्मणपुद्गलान् , तत्र दृष्टान्तमाह-'तृणगणमिव' तृणोत्करमिवेतश्चेतश्च विक्षिप्त ‘दन्ताली' काष्ठमयी मरुमण्डलप्रसिद्धा, तत् 'सङ्घातं' सङ्घातननाम, तच पूर्वोक्तं बन्धननामापि 'तनुनाम्ना' शरीराभिधानेन पञ्चविधं भवतीति । तत्र बन्धननाम पूर्वमेव भावितम् । अथ सङ्घातनाम भाव्यते-औदारिकसङ्घातनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम । तत्र यदुदयाद् औदारिकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यमन्निधानेन व्यवस्थापयति तद् आदारिकसङ्घातननाम १ । यदुदयाद् क्रियशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति-अन्योऽन्यसन्निधानेन
१णमवि त. क०॥