________________
३२-३४ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
सङ्क्रामति तर्हि स गच्छन्नागच्छन् वा कस्मात् नोपलक्ष्यते ? उच्यते - कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियाऽगोचरत्वात् । आह च प्रज्ञाकर गुप्तोऽपि - अन्तराभवदेहोऽपि सूक्ष्मत्वान्नोपलक्ष्यते ।
५३
निष्क्रामन् प्रविशन् वाऽपि, नाभावोऽनीक्षणादपि ॥
कार्मणनिबन्धनं नाम कार्मणनाम, यदुदयात् कार्मणप्रायोग्यान् पुद्गलानादाय कार्मणशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति ५ ।। ३२ ।। उक्तं तनुनाम पञ्चधा ३, इदानीमङ्गोपाङ्गनाम त्रिधा प्राह
बाहूरु 'पिट्टि सिर उर, उयरंग उवंग अंगुलीपमुहा । सेसा अंगोवंगा, पढमतणुतिगस्सुवंगाणि ॥ ३३ ॥
1
'बाहू' भुजद्वयम् ‘ऊरू' ऊरुद्वयम् 'पृष्टिः ' प्रतीता 'शिरः' मस्तकम् 'उरः' वक्षः 'उदरं ' पोट्टमित्यष्टावङ्गान्युच्यन्ते । इह विभक्तिलोपः प्राकृतत्वात् एवमन्यत्रापि । उपाङ्गानि अङ्गुलीप्रमुखाणि इह पुस्त्वं प्राकृतत्वात् । 'शेषाणि' तत्प्रत्यवयवभूतान्यङ्गुल पर्वरे खादीनि अङ्गोपाङ्गानि, इहापि पुंस्त्वं प्राकृतत्वात् । प्राकृते हि लिङ्गमतन्त्रम् | यदाहुः प्रभुश्री हेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे – “लिङ्गमतन्त्रम्" (सि० ८ -४ - ४४५ ) इति । इमानि च उपाङ्गानि "पढमतपुतिगस्स" ति प्रथमा:- आद्या यास्तनवः - शरीराणि तास त्रिकं-त्रितयमौदारिकवैक्रियाऽऽहारकस्वरूपम् तस्य प्रथमतनुत्रिकस्य भवन्ति । ततः प्रथमतनुत्रिकद्वारेणाङ्गोपाङ्गनामापि त्रिविधं मन्तव्यम् । तथाहि - औदारिकाङ्गोपाङ्गनाम वैक्रियाङ्गोपाङ्गनाम आहारकाङ्गोपाङ्गनाम | तत्र यदुदयाद् औदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गवि भागपरिणतिरुपजायते तद् औदारिकाङ्गोपाङ्गनाम १ । यदुदयाद् वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् वैक्रियाङ्गोपाङ्गनाम २ । यदुदयाद् आहारकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् आहारकाङ्गोपाङ्गनाम ३ । तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वात् नास्त्यङ्गोपाङ्गसम्भव इति ।। ३३ ।।
उक्तं त्रिविधमङ्गोपाङ्गनाम । साम्प्रतं बन्धननामस्वरूपमाह - उरलाइपुग्गलाणं, निषडवज्झतयाण संबंधं ।
जं कुणइ जउसमं तं उरलाईबंधणं नेयं ॥ ३४ ॥ औदारिकादिपुद्गलानाम् आदिशब्दाद् वैक्रियपुद्गलानाम् आहारकपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानाम्, किंविशिष्टानाम् इत्याह - " निबद्धवज्यंतयाण "त्ति निबद्धाथ बध्यमानाश्व
१ पुट्ठि क० ख० ग० ङ० ॥ २ पेट्टमि० घ० ॥