________________
देवेन्द्रसूरिविरचितस्वोपज्ञटोमोपेतः
[ गाथा पुद्गलानादाय औदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयति, तद् औदारिकशरीरनामेत्यर्थः १। तथा विविधा क्रिया विक्रिया तस्यां भवं वैक्रियम् । तथाहि-तदेकं भूत्वा अनेकं भवति, अनेकं भूत्वा एकम् , अणु भूत्वा महद् भवति, महच्च भूत्वा अणु, खेचरं भुत्वा भृमिचरं भवति, भूमिचरं भूत्वा खेचरं भवति, दृश्यं भूत्वा अदृश्यं भवति, अदृश्यं भूत्वा दृश्यमित्यादि । तच्च द्विधा--औपपातिकं लब्धिप्रत्ययं च । तत्रौपपातिकम्-उपपातजन्मनिमित्तम् , तञ्च देवनारकाणाम् । लब्धिप्रत्ययं तिर्यङ्मनुष्याणाम् । वैक्रियनिबन्धनं नाम वैक्रियनाम, यदुदयाद् वैक्रियशरीरप्रायोग्यान पुद्गलानादाय वैक्रियशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति २ । तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्ती सत्यां विशिष्टलब्धिवशाद् आह्रियते-निर्वय॑त, इत्याहारकम् , "बहुलम् " (सि० ५-१-२) इति वचनात् कर्मणि णकप्रत्ययः, यथा पादहारक इत्यादौ, तच्च वैक्रियापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकम् , आहारकनिवन्धनं नाम आहारकनाम, यदुदयवशाद् आहारकशरीरप्रायोग्यान् पुद्गलानादाय आहारकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहन्योऽन्यानुगमरूपतया सम्बन्धयतीति ३ । तथा तेजसा तेजःपुद्गले निवृत्तं तेजसम् , यद् भुक्ताहारपरिणमनहेतुर्यद्वशाच्च विशिष्टतपःसमुत्थलब्धिविशेषस्य पुसस्तेजोलेश्याविनिर्गमः, तेजोनिबन्धनं नाम तेजसनाम, यदुदयवशात् तेजसशरीरप्रायोग्यान पुगलानादाय तेजसशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशेः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति ४ । तथा कर्मपरमाणुषु भवं कार्मिक कार्मणशरीरमित्यर्थः । कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः / कामणशरीरम् , कर्मणो विकारः कार्मणमिति व्युत्पत्तेः तदुक्तम्
कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिष्फन ।
सव्वेसिं सरीराणं, कारणभूयं मुणेयव्वं ॥ अत्र "सव्वेसिं" ति सर्वेषामौदारिकादिशरीराणां 'कारणभूतं' बीजभूतं कार्यणशरीरम् । न खल्यामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कर्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः । इदं च कार्मणशरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं कारणम् । तथाहि-कार्मणेनैव वपुषा परिकरितो अन्तुमरणदेशमपहायोत्पत्तिदेशमभिसर्पति । ननु यदि कार्मणवपुःपरिकरितो गत्यन्तर
१ कार्मणं श० क० ख० ग० घ० ।। २ कर्म विकारः कार्मणनष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ।।