________________
३१-३२ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । जातिनाम एकेन्द्रिय जातिनाम, एवं यावत् पञ्चेन्द्रियजातिनाम |
अत्राह-ननु एतेन जातिनाम्ना किं भावेन्द्रियमेकादिकं जन्यते ? उत द्रव्येन्द्रियम् ? आहोस्विदेकेन्द्रियोऽयमित्यादिव्यपदेशः ? इति त्रयी गतिः । तत्र यद्याद्यः पक्षः स न युक्तः, भावेन्द्रियस्य श्रोत्रादीन्द्रियज्ञानावरणक्षयोपशमजन्यत्वात् 'क्षायोपशमिकानीन्द्रियाणि" इति वचनात् । अथ द्रव्येन्द्रियं जन्यते तदप्ययुक्तम् , द्रव्येन्द्रियस्येन्द्रियपयोप्तिनामोदयजन्यत्वात् । एकेन्द्रियादिव्यपदेशस्त्वेकादीन्द्रियज्ञानावरणक्षयोपशमपर्याप्तिनामभ्यामेव सेत्स्यति किमन्तर्गडुना जातिनाम्ना ?, अनोच्यते-आद्यविकल्पयुगलं तावद् अनभ्युपगमादेव निरस्तम् । यत् पुनरुक्तम् ‘एकेन्द्रियादिव्यपदेशस्तु' इत्यादि तदयुक्तम् , यत" इन्द्रियज्ञानावरणक्षयोपशम इन्द्रियपर्याप्तिश्च यथाक्रमं भावेन्द्रियजनने द्रव्येन्द्रियजनने च कृतार्था कथमेकेन्द्रियादिव्यपदेशनिबन्धनपरिणतिलक्षणं कार्यान्तरं जनयितुमलम् ?, न ह्यन्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गात् , तस्माद् एकेन्द्रियादीनां समानजातीयजीवान्तरेण सह समाना बाह्या काचित् परिणतिरेकेन्द्रियादिशब्दवाच्या अवश्यं जातिनामकोदयत एवाभ्युपगन्तव्या । उक्तं च
___ अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः इति । तथाहि-बकुलादीनामनुमानादिसिद्धे इन्द्रियपश्चकक्षयोपशमे सत्यपि पञ्चेन्द्रियशब्दव्यपदेश्यपञ्चेन्द्रियजातिनामकर्मोदयजन्यविशिष्टबाह्यपरिणत्यभावात् न पञ्चेन्द्रियव्यपदेशो भवति । यद्येवं गोतुरगभुजगमातङ्गादिक्रमे सत्यपि पञ्चेन्द्रियव्यपदेश्यस्यापि पर्यायस्य कारणं किश्चित् कर्माभ्युपगन्तव्यम् ? इति चेद् नैवम् , जातिनामकर्मवेचिच्यादेव तत्सिद्वेः । न चात्रैकान्तेन युक्त्युपन्यास एवाग्रहः कार्यः, आगमोपपत्तिगम्यत्वात् तत्त्वस्य । यदवादि
आगमश्चोपपत्तिश्च, सम्पूर्ण 'दृष्टिलक्षणम् । ____ अतीन्द्रियाणामानां, सद्भावप्रतिपत्तये ॥ इति । उक्तं जातिनाम पञ्चधा २ । तथा औदारिकं च वैक्रियं'च आहारकं च दैजसं च कार्मिकं चेति द्वन्द्वः । भावार्थोऽयम्-औदारिकवैक्रियाऽऽहारकतैजसकार्मणनामभेदात् पञ्चधा शरीरनाम । तत्र उदारं-प्रधानम् , प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं-सालिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणम् , महत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेवौदारिकम् , "विनयादिभ्यः' (सि० ७-२१६६ )इतीकणप्रत्ययः, तन्निबन्धनं नाम औदारिकनाम, यदुदयवशाद् औदारिकशरीरप्रायोग्यान्
१ विद्धि ल० ख ॥