________________
देवेन्द्रसूरिविरचितस्वोपनटीकोपेतः
[ गाथा दर्शनावरणे नव, वेदनीये द्वे, मोहे सम्यक्त्वमिश्रवर्जाः षड्विंशतिः, आयुषि चतस्रः, नाम्नि भेदान्तरसम्भवेऽपि प्रदर्शितयुक्त्या सप्तषष्टिः, गोत्रे द्वे, अन्तराये पश्च इत्येतद्विशत्युत्तरं प्रकृतिशतं बन्धेऽधिक्रियते । एतदेव सम्यक्त्वमिश्रसहितं द्वाविंशत्युत्तरप्रकृतिशतमुदये. उदीरणायां च। सत्तायां पुनः शेषकर्मणां पञ्चपञ्चाशत् नाम्नस्त्रिनवतिरित्यष्टाचत्वारिंशं शतम् , यद्वा शेषकर्मणां पश्चपञ्चाशत् नाम्नस्युत्तरशतमित्यष्टापश्चाशं शतमधिक्रियत इति । एतदेव मनसिकृत्याह-"वंधुदए सत्ताए" इत्यादि । इह शतशब्दस्य प्रत्येकं योगाद् यथासङ्खय बन्धे विशं शतम् , उदये उपलक्षणत्वाद् उदीरणायां च द्वाविंशं शतम् , सत्तायामष्टपञ्चाशं शतम् उपलक्षणत्वादष्टाचत्वारिंशं शतमिति, भावना सुकरैव ।। ३१ ॥
अथ पूर्वनिर्दिष्टान् गतिजातिप्रभृतीनां पिण्डप्रकृतीनां चतुरादिभेदान् व्याचिख्यासुराह -
निरयतिरिनरसुरगई, इगधियतियचउपणिंदिजाईओ। 'ओरालियवेवियआहारगतेयकम्महगा ॥३२॥
निरयाश्च तिर्यञ्चश्च नराश्च सुराश्च तेषु गतिरिति विग्रहः । भावार्थोऽयम्-गतिशब्दः प्रत्येकं योज्यते, ततश्च "अयमिष्टफलं दैवम्" इति वचनाद् निर्गतम् अयम्-इष्टफलं सातवेदनीयादिरूपं येभ्यस्ते निरयाः-सीमन्तकादयो नरकावासाः, ततो निरयेषु विषये गतिरिति गतिनाम निरयगतिनाम, तद्विपाकवेद्या कर्मप्रकृतिरपि निरयगतिनाम, नारकशब्दव्यपदेश्यपर्यायनिवन्धनं निरयगतिनामेति हृदयम् । एवं तिर्यग्नरसुरगतिनामापि वाच्यम् ।
अत्राह-ननु सर्वेऽपि पर्याया जीवेन गम्यन्ते प्राप्यन्त इति सर्वेषामपि तेषां गतित्वप्रसङ्गः, तथा च प्राग्गतिशब्दस्येयमेव व्युत्पत्तिर्दर्शितेति, नैवम् , यतोऽविशेषेण व्युत्पादिता अपि शब्दा रूढितो गोशब्दवत् प्रतिनियतमेवार्थ विषयीकुर्वन्तीत्यदोषः । उक्तं गतिनाम चतुर्विधम् १ ।
तथा सूचकत्वात् सूत्रस्य एकेन्द्रियाश्च द्वीन्द्रियाश्च त्रीन्द्रियाश्च चतुरिन्द्रियाश्च पञ्चेन्द्रियाश्च तेषां जातय इति विग्रहः । भावार्थोऽयम्-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामभेदात् पञ्चधा जातिनाम । तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमाद् एकविज्ञानभाज एकेन्द्रियाः, द्वयोः स्पर्शनरसनज्ञानयोरावरणक्षयोपशमाद् द्विविज्ञानभाजो द्वीन्द्रियाः, त्रयाणां स्पर्शनरसनघ्राणज्ञानानामावरणक्षयोपशमात् त्रिविज्ञानभाजस्वीन्द्रियाः, चतुर्णा स्पर्शनरसनघ्राणचक्षुर्ज्ञानानामावरणक्षयोपशमात् चतुर्विज्ञानभाजश्चतुरिन्द्रियाः, पश्चानां स्पर्शनरसनघ्राणचक्षःश्रोत्रज्ञानानामावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः । तत एकेन्द्रियाणां
१ ओरालविवाहारगतेयकम्मण पण सरीरा घ० ।।