________________
३०-३१ ]
कर्म विपाकनामा प्रथमः कर्मग्रन्थः ।
अथ सप्तषष्टिभेदानाह - - " बंधण संघाय हो तरणूसु" त्ति । बन्धनानि च पञ्चदश, सङ्घाताथसङ्घातनानि पञ्च बन्धनसङ्घातास्तेषां ग्रहणं ग्रहो बन्धनसङ्घातग्रहः । ' तनुषु' शरीरेषु, तनुग्रहणेनैव बन्धन सङ्घाता गृह्यन्ते न पृथग् विवक्ष्यन्त इत्यर्थः । तथा " सामन्नवन्नचऊ" त्ति सामान्यं - कृष्ण नीलाद्यविशेषितं वर्णेनोपलक्षितं चतुष्कं सामान्यवर्णचतुष्कं गृह्यत इति शेषः । अयमत्राशय / - इह सप्तषष्टिमध्ये औदारिकादितनुपञ्चकमेव गृह्यते, न तद्बन्धनानि तत्स वातनानि च यत औदारिकतन्वा स्वजातीयत्वाद् औदारिकतनुसदृशानि बन्धनानि तत्सङ्घाताश्च गृहीताः, एवं वैक्रियादितन्वाऽपि निज निजबन्धनसङ्घाता गृहीता इति न पृथगेते पञ्चदश बन्धनानि पञ्च सङ्घाता गण्यन्ते । तथा वर्णगन्धरसस्पर्शानां यथासङ्ख्यं पञ्चद्विपञ्चाष्टदैर्निष्पन्नां विंशतिमपनीय तेषामेव सामान्यं वर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते, ततश्वानन्तरोदितात् त्र्युत्तरशताद् वर्णादिपोडशकवन्धनपञ्चदशकसङ्घातपञ्चकलक्षणानां षट्त्रिंशत्प्रकृतीनामपसारणे सति सप्तषष्टिर्भवतीति ॥ ३० ॥ एतदेवाह
४६
इय सत्तट्ठी बंधोदर य न य सम्ममोसथा बंधे । बंधुदए सत्ताए, वोसदुवोसऽडवन्नसयं ॥ ३१ ॥
'इति' पूर्वोक्तप्रकारेण सप्तषष्टिर्नामकर्मप्रकृतीनां भवति । सा च क्वोपयुज्यते ? इत्याह" बंधोदए य" त्ति वन्धश्व उदयश्च बन्धोदयं तस्मिन् 'बन्धोदये' बन्धे च उदये च सप्तषष्टिभवति, चशब्दाद् उदीरणायां च सप्तषष्टिः । अथ बन्धनसङ्घातनवर्णादिविशेषाणां विवक्षावशादेव बन्धे नाधिकार इत्युक्तम्, सम्प्रति ययोः प्रकृत्योः सर्वथैव बन्धो न भवति ते आह - " न य सम्ममीसया बंधे" त्ति 'न च' नैव सम्यक्त्वमिथके बन्धेऽधिक्रियेते । अयमभिप्रायः – सम्यक्त्वमिश्रयोर्वन्ध एव न भवति, किन्तु मिथ्यात्वपुद्गलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषाञ्चिदत्यन्तविशुद्विमापादयति, अपरेषां त्वषद्विशुद्धिम्, केचित् पुनर्मिथ्यात्वरूपा एवावतिष्ठन्ते तत्र येऽत्यन्तविशुद्धास्ते सम्यक्त्वव्यपदेशभाजः, द्विशुद्धा मिश्रव्यपदेशभाजः शेषा मिथ्यात्वमिति । उक्तं च
1
सम्यक्त्वगुणेन ततो, विशोधयति कर्म तत् स मिथ्यात्वम् । - यद्वच्छ गणप्रमुखैः, शोध्यन्ते कोद्रवा मदनाः || यत् सर्व तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम् । मिश्रं तु दरविशुद्धं भवत्यशुद्धं तु मिथ्यात्वम् ॥
उदीरणासत्तासु पुनः सम्यक्त्वमिश्र के अध्यधिक्रियेते । एवं च सति ज्ञानावरणे पञ्च,
१ ०जा निजा ब० ख० ग० ङ० ॥