________________
देवेन्द्रसूरिविरचिनस्वोपज्ञटीकोपेतः
[ गाथा समासो यथा-सुभगत्रिक्रमादिर्यस्य दुर्भगत्रिकस्य तत् सुभगत्रिकादि तस्य विभाषा-प्ररूपणा कर्तव्येति शेषः । काभिः कृत्वा पुनस्त्रसचतुष्कादिका विभाषा कर्तव्या३ इत्याह-'तदादिसङ्ख्याभिः प्रकृतिभिः' सा-निर्दिष्टा प्रकृतिरादिर्यस्याः सङ्ख्यायाः सा तदादिः, तदादिः सङ्ख्या यासां प्रकृतीनां तास्तदादिसङ्ख्यास्ताभिस्तदादिसङ्ख्याभिः प्रकृतिभिः, कोऽर्थः ? याऽसौ प्रकृतिस्त्रसादिका निर्दिष्टा तामादौ कृत्वा निर्दिष्टसङ्ख्या पूरणीयेति । एताश्च संज्ञाः प्रकृतिपिण्डकसङ्ग्राहिण्यो यथास्थानमुपयोगमायास्यन्तीति कृत्वा प्ररूपिता इति ।। २८ ॥
उक्ता नामकर्मणो द्वाचत्वारिंशद् भेदाः । अथ तस्यैव त्रिनवतिभेदान प्ररूपयितुकामो गत्यादिपदानां पिण्डप्रकृतिसंज्ञिकानां मध्ये येन पदेन यावन्तो भेदाः पिण्डिता वर्तन्ते तान् भेदान् तेषामाह
गइयाईण उ कमसो, चउपणपणतिपणपंच छच्छकं ।
पणदुगपणऽढचउद्ग, इय उत्तरभयपणसट्टो ।। २8 ।। 'गत्यादीनां' पिण्डप्रकृतीनां पूर्वप्रदर्शितस्वरूपाणां पुनः 'क्रमशः' क्रमेण यथासङ्घयमिति यावत् चतुरादयो भेदा भवन्तीति वाक्यार्थः । तथाहि-गतिनाम चतुर्धा, जातिनाम पञ्चधा, तनुनाम पश्चधा, उपाङ्गनाम विधा, बन्धननाम पञ्चधा, सङ्घातननाम पञ्चधा, संहनननाम पोढा, संस्थाननाम पोढा, वर्णनाम पश्चधा, गन्धनाम द्विधा, रसनाम पञ्चधा, स्पर्शनामाऽष्टधा, आनुपूर्वीनाम चतुर्धा, विहायोगतिनाम द्वेधा । एतेषां सर्वमीलने भेदाग्रमाह"य" त्ति 'इति' अमुना चतुरादिभेदमीलनप्रकारेणोत्तरभेदानां पञ्चपष्टिरिति ।। २९ ।।
अस्वीसजुया तिनवह, संते वा पनरबंधणे तिसयं ।
बंधणसंघायगहो, तणूस सामनवन्नचऊ ।। ३० ।।
एषा पूर्वोक्ता पञ्चपष्टिः 'अष्टाविंशतियुता' प्रत्येकप्रकृत्यष्टाविंशत्या सह मीलने त्रिभिरधिका नवतिस्त्रिनवतिर्भवति । सा च क्वोपयुज्यते ? इत्याह-'संते" त्ति प्राकृतत्वात् सत्तायां सत्कर्म प्रतीत्य बोद्धव्येत्यर्थः। वाशब्दो विकल्पाथों व्यवहितसंबन्धश्च, स चे योज्यते'पञ्चदशवन्धनस्त्रिशतं वा पञ्चदशसङ्ख्य वक्ष्यमाणस्वरूपैर्वन्धनः प्रदर्शितत्रिनवतिमध्ये प्रक्षिप्तस्त्रिभिरधिकं शतं त्रिशतं वा सत्तायामधिक्रियते इति शेषः । अथ त्रिनवतिमध्ये पञ्चदशानां प्रकृतीनां प्रक्षेपेऽष्टोत्तर शतं भवतीति चेद् उच्यते-या वक्ष्यमाणाः पञ्चदश बन्धननामप्रकृतयस्तासु मध्यात सामान्यत औदारिकादिबन्धनपञ्चकस्य विनवतिमध्ये पूर्व प्रक्षिप्तवान् - शेषाणां दशानां प्रक्षेपे त्रिशतमेव भवतीति न कश्चिद्विरोधः । सूत्रे च "पनरबंधणे" इन्यत्र विभक्तिवचनव्यत्ययः प्राकृतत्वादिति । उक्ता नामकर्मणस्त्रिनवतिस्युत्तरशतं च भेदानाम् ।