________________
३७-३९ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । रुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेन अस्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम् , तन्निबन्धनं नाम वज्रऋ. षभनाराचनाम १ । यत् पुनः कीलिकारहितं संहननं तद् ऋषभनाराचम् , तन्निबन्धनं नाम ऋषभनाराचनाम २ । यत्र पुनर्मर्कटबन्धः केवलो भवति न पुनः कीलिका ऋषभसंज्ञः पट्टश्च तद् नाराचम् , तन्निबन्धनं नाम नाराचनाम ३ । यत्र त्वेक पार्बेन मकैटबन्धो द्वितीयपार्वेन च कीलिका भवति तद् अर्धनाराचम् , तमिवन्धनं नामाऽर्धनाराचनाम ४ । यत्र पुनरस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत् कीलिकासंहननम् , तन्निबन्धनं नाम कीलिकानाम ५। यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यबहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते तत् सेवार्तम् , तन्निबन्धनं नाम सेवातनाम ६ । यद्वा "छेव?" ति दकारस्य लुप्तस्येह दर्शनात् छेदानाम्-अस्थिपर्यन्तानां वृत्तं-परस्परसम्बन्धघटनालक्षणं वर्तनं वृत्तिर्यत्र तत् छेदवृत्तम् , कालिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमात्रसंस्पर्शि षष्ठमित्यर्थः । ततो यदुदयात् शरीरे वज्रऋपभनाराचसंहननं भवति तद् वज्रऋषभनाराचसंहनननामकर्मेति । एवमृषभनाराचादिष्वपि वाच्यमिति ॥३७॥३८॥ व्याख्यातं षड्विधं संहनननाम । सम्प्रति षोढा संस्थाननाम विवागह
समचउरंसं निग्गोहसाइखुजाइँ वामणं हुई।
संठाणा वन्ना किण्हनीललोहियहलिद्दसिया ॥३६।। समचतुरस्रम् १ "निग्गोह" त्ति पदैकदेशेऽपि पदप्रयोगदर्शनात् न्यग्रोधपरिमण्डलम् २ सादि ३ कुब्जम् ४ वामनम् ५ हुण्डम् ६ इति षट् 'संस्थानानि' अवयवरचनात्मकशरीराकृतिस्वरूपाणि शरीरे भवन्तीति शेषः । तत्र समाः-शास्त्रोक्तलक्षणाऽविसंवादिन्यश्चतस्रोऽस्रयःपर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् , आसनस्य ललाटोपरिभागस्य चान्तरम् , दक्षिणस्कन्धस्य वामजानुनश्चान्तरम् , वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् समचतुरस्रम् , "सुप्रातसुश्वमुदिवशारिकुक्षचतुरस्र णीपदाऽजपदप्रोष्ठपदभद्रपदम्" (सि० ७-३-१२९) इति सूत्रेण समामान्तोऽप्रत्ययः, समचतुरस्र च तत् संस्थानं च समचतुरस्रसंस्थानम् । तुल्यारोहपरिणाहः सम्पूर्णलक्षणोपेताङ्गोपाङ्गवयवः स्वाङ्गलाष्टाधिकशतोच्छ्यः सर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकारविशेषः समचतुरस्रसंस्थाननिबन्धनं नाम समचतुरस्रनाम १ । न्यग्रोधवत् परिमण्डलं यस्य तद् न्यग्रोधपरिमण्डलम् , यथा न्यग्रोधःवटवृक्ष उपरि सम्पूर्णावयवोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णावयवम् अधस्तु न
१ •पार्श्व म० क० ग० । एवमग्रेऽपि ।। २ साचि ३ वामनम् ४ कुब्जम् ५ हु० ख० ग० ० ।।