________________
१७-१८ ]
affaureater प्रथमः कर्मग्रन्थः ।
नरगतिकारणत्वान्नराः प्रत्याख्यानावरणाः, अमरगतिकारणत्वादमराः संज्वलनाः । एतदुक्तं भवति - अनन्तानुबन्ध्युदये मृतो नरकगतादेव गच्छति, अप्रत्याख्यानावरणोदये मृतस्तिर्यक्षु, प्रत्याख्यानावरणोदये मृतो मनुष्येषु, संज्वलनोदये पुनमृतोऽमरेष्वेव गच्छति । उक्तश्चायमर्थः पश्चानुपूर्व्याऽन्यत्रापि
'पक्खच उमासवच्छर जावजीवाणुगामिणो भणिया |
देवनरतिरियनारयगडसाहणहेययो नेया || (विशे० गा० २६६२)
इदमपि व्यवहारनयमधिकृत्योच्यतेः अन्यथा हि अनन्तानुबन्ध्युदयवतामपि मिथ्यादृशां केपाञ्चिदुपरितनग्रैवेयकेषूत्पत्तिः श्रूयते प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः, अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः । तथा "सम्म "त्ति सम्यक्त्वं च" अणुसव्वविर" ति विरतिशब्दस्य प्रत्येकं सम्बन्धाद् अणुविरतिश्च- देशविरतिः सर्वविर - तिश्च यथाख्यातचारित्रं च सम्यक्त्वा सर्वविरतियथाख्यातचारित्राणि तेषां घातः - विनाशः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातस्तं कुर्वन्तीत्येवंशीलाः सम्यक्त्वा सर्वविरतियथाख्यातचारित्रघातकराः । एतदुक्तं भवति - अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः । यदाहुः श्रीभद्रबाहुस्वामिपादा:
W
४१
पढमिल्लुयाण उदए, नियमा संजोयणाकसायाणं ।
सम्मदंसणलंभं भवसिद्धीया विन लहंति ।। (आ० नि० गा० १०८ )
अप्रत्याख्यानावरणा देशविरतेर्घातकाः, न सम्यक्त्वस्येत्यर्थाल्लब्धम् | यदाहुः पूज्यपादाःबीयकसायादये, अप्पचक्खाणनामधिज्जाणं ।
सम्म सणलभं विरयाविश्यं न उ लहंति || (आ० नि० गा० १०६)
प्रत्याख्यानावरणास्तु सर्वविरतेर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च
8.
" तइयकसायादए, पच्चक्खाणावरणनामधिज्जाणं ।
देसिकदेसविरई, चरितलंभं न उ लहंति || (आ० नि० गा० ११०) संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीमदाराध्यपादै:
१ पक्षचतुर्मासवत्सर यावज्जीवानुगामिनो भणिताः । देवनरतिर्यग्नारकगतिसाधन हेतवो ज्ञेयाः ॥ २ प्राथमिकानामुदये नियमात्संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ ३ द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लसन्ते ॥ ४ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशैकदेशविरतिं चरित्रलाभं न तु लभन्ते ॥
६