________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा नाल्पमप्युत्सहेद्येषां, प्रत्याख्यानमिहोदयात् ।
अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ।। ते चत्वारः क्रोधमानमायालोमाः । तथा प्रत्याख्यानं-सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः । यन्न्यगादि--
सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते ।
तदारणसंज्ञाऽतस्तृतीयेषु निवेशिता ।। ते चत्वारः क्रोधमानमायालोभाः । तथा परीपहोपसर्गोपनिपाते सति चारित्रिणमपि 'संशब्द ईषदर्थे' सम्-ईषद् ज्वलयन्ति-दीपयन्तीति संज्वलनाः । यदभ्यधायि
परीषहोपसर्गोपनिपाते यतिमप्यमी ।
समीषद् ज्वलयन्त्येव, तेन संज्वलनाः स्मृताः ।। ते चत्वारः क्रोधमानमायालोमाः । तदेवं चत्वारश्चतुष्ककाः षोडश भवन्तीति ॥१७॥ उक्ताः षोडश कषायाः, सम्प्रत्येतेषामेव विशेषतः किञ्चित् स्वरूपं प्रतिपिपादयिपुराह
जाजीववरिसचउमासपक्खगानरयतिरियनरअमरा।
सम्माणुसव्वविरईअहखायचरित्तघायकरा ॥१८॥
"जाजीव" त्ति "यावत्तावजीवितावर्तमानावटप्रावारकदेवकुलैवमेवे वः" (सि० ८-१. २७१) इति प्राकृतसूत्रेण वकारलोपे यावज्जीवं च वर्ष च चतुर्मासं च पक्षश्च यावजीववर्षचतुर्मासपक्षास्तान् गच्छन्तीति यावजीववर्षचतुर्मासपक्षगाः । "नाम्नो गमः खड्डौ च विहायसस्तु विहः” (सि० ५-१-१३१) इति डप्रत्ययः । इदमुक्तं भवति-यावजीवानुगा अनन्तानुबन्धिनः, वर्षगा अप्रत्याख्यानावरणा;, चतुर्मासगाः प्रत्याख्यानावरणाः, पक्षगाः संज्वलनाः । इदं च
'फरुसवयणेण दिणतवं, अहिंक्खिवंतो य हणइ मासतवं ।
वरिसतवं सवमाणो, हणइ हणंतो य सामन्नं ॥ (उप० मा० गा० १३४) इत्यादिवद् व्यवहारनयमाश्रित्योच्यते; अन्यथा हि बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते, अन्येषां च संयतादीनामाकर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तमुहूतादिकं कालमुदयः श्रूयत इति । तथा नरकगतिकारणत्वादनन्तानुबन्धिनः कषाया अपि नरकाः, भवति च कारणे कार्योपचारः, यथा-"आयुघृतम् , नड्वलोदकं पादरोगः" इति । एवं तिर्यग्गतिकारणत्वात् तिर्यञ्चोऽप्रत्याख्यानावरणाः,
१ परुषवचनेन दिनतपोऽधिक्षिपश्च हन्ति मासतपः । वर्षतपः शपमानः हन्ति धनंश्च श्रामण्यम् ।।