________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
३६
इत्यादिप्रतिपादितगुरुलक्षणविलक्षणेऽगुरावपि गुरुबुद्धिः, संयमनृतशौचत्रह्मसत्यादि (ब्रह्माकिञ्चन्यादि) स्वरूपधर्मप्रतिपक्षेऽधर्मेऽपि धर्मबुद्धिरिति मिथ्यात्वम् ||१६|| उक्तं मिथ्यात्वम्, गुणनेचाभिहितं त्रिविधमपि दर्शनमोहनीयम् । इदानीं चारित्रमोहनीयमभिधित्सुराह - सोलस कसाय नव नोकसाथ दुविहं चरित्र मोहणियं ।
अण अप्पचक्खाणा, पञ्चवाणा य संजलणा ॥ १७ ॥
१६-१७ ]
'विविध' द्विभेदं चारित्रमोहनीयं भवति, तद्यथा - 'सोलस कसाय" ति कष्यन्ते-हिंस्यन्ते परस्परस्मिन् प्राणिन इति कपः - संसारः, कपमयन्ते – गच्छन्त्येभिर्जन्तव इति कषायाः । यद्वा कपस्याssवः - लाभो येभ्यस्तै कपायाः क्रोधमानमायालोभाः । तत्र क्रोधोऽक्षान्तिपरिणतिरूपः, मानो जात्यादिसमुत्थोऽहङ्कारः, माया परवञ्चनाद्यात्मिका, लोभोऽसन्तोषात्मको गृद्धिपरिणामः । ततः पोडशसङ्ख्याः कषायाः कषायमोहनीयमुच्यते । विभक्तिलोपथ प्राकृतत्वात्, एवमुत्रापि | "नव नोकसाय" त्ति पायैः सहचरा नोकपायाः, ते च नव - हास्यादयः पद् यो वेदाः । अत्र नोशब्दः साहचर्ययाची । एषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायैरतन्तानुबन्धादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहवदन्यसंसमनुवर्तन्ते इति भावः । कपायोद्दीपनाद्वा नोकषायाः । उक्तं च-
पावर्तित्वात् कारणादपि । हास्यादिकस्योक्ता, नोकषायपाता ॥
1
aat aasar areaाया लोकवायमोहनीयमुच्यते । अथ "यथोद्देशं निर्देशः" इति न्यायात् प्रथमं कषायमोहनीयं व्याख्यानयन्नाह - " अण अप्यचक्खाणा" इत्यादि । " अण" चि अनन्तानुबन्धिनः । तत्रानन्तं संसारमनुबध्नन्तीत्येवंशीला' अनन्तानुबन्धिनः । यदवाचियस्मादनन्तं संसारमनुबध्नन्ति देहिनाम् । ततोऽनन्तानुबन्धीति, संज्ञाऽऽद्येषु निवेशिता ।।
ते चत्वारः क्रोधमानमायालोभाः । यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति, तथाप्यवश्वमनन्तसंसारसौलकारण मिथ्यात्वोदया क्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । शेषकपाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययौगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति । तथा न वेद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयादतोऽप्रत्याख्यानाः ।
यदभाणि---
१ आद्याः कषायाः ।