________________
देवेन्द्रसूरिविरचिलस्वोपज्ञटीकोपेतः
[ गाथा
"उवसमसेढिगयस्स उ, होइ हु उत्सामियं तु सम्मत्तं । जो वा अकयतिजो, अखवियमिच्छो लहइ सम्मं ।। उवसमसम्मत्ताओ, चयओ मिच्छं अपात्रमाणस्त । सासायणसम्मत्तं, तयंतरालम्मि छावलियं ।। मिच्छत्तं जमुइन्न, तं खीणं अणुइयं च उपसंतं । - भीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥
(विशे० आ० गा० ५२९-३१-३२) इति ॥१५॥ उक्तं सम्यक्त्वम् । अथ मिश्रमाह"मीसा न रागदोसो, जिणधम्मे अंतमुहु जहा अन्ने ।
नालियरदीवमणुणो, मिच्छं जिणधम्मविवरीयं ।। १६ ।। 'मिश्रात्' मिश्रोदयाद् जीवस्य 'जिनधर्मे जिनधर्मस्योपरि न रागः मतिदौर्बल्यादिना एकान्तनिश्चयात्मकश्रद्धानरूपः प्रीतिविशेषः, न च द्वेषः-एकान्तविप्रतिपत्तिपरिणामोपजारिन्दामकोऽप्रीतिरूपः । मिश्रोदयश्च “तमुहु" त्ति 'अन्त हत' भिन्नमुहूर्तकालं यावद् भवनीत्यर्थः । अथ कथं मिश्रोदयाज्जिनधर्म न रागो न द्वेषः ? इत्याशङ्कय दृष्टान्तमाह- "जहा अन्ने" इत्यादि । 'यथा' इत्युदाहरणोपन्यासे 'अन्ने' कूगद्योदने 'नालिकेरद्वीपमनुजम्य'नालिवरद्वीपवासिपुरुषस्य न रागो न च द्वेषोऽदृष्टाऽश्रुतत्वेन । उक्तं च वृहच्छतकबहाचू - __ जहा नालिकेरदीववासिस्स अइछुहाइयस्स वि पुरुसस्स इत्थ ओयणाइए अणेगविहे वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ। एवं सम्मामिच्छद्दिहिस्स वि जीवाइपयत्थाणं उपरि नई न य निंदा ।। इत्यादि।
उक्तं मिश्रम् । सम्प्रति मिथ्यात्वमाह-"मिच्छं जिणधम्मविवरीयं" ति । "मिच्छं" ति मिथ्यात्वं जिनधर्माद् विपरीतं-विपर्यस्तं ज्ञेयमिति शेषः । अत्रायमाशयः-रागद्वपमोहादिकलङ्काङ्कितेऽदेवेऽपि देवबुद्धिः,
"धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्वानां धर्मशास्त्रार्थदेशको गुरुरुच्यते ।।"
१ उवसामगसे ढिगयरस होइ उव० इति माष्ये ॥२ यथा नालि करदीपवासिनोऽतिक्षधादितम्यापि पुरुषस्येहौदनादिकेऽनेकविधेऽपि ढौकिले तस्याहारस्योपरि न लांचर्न च निन्दा, येन कारणेन स ओदनादिक आहारी न कदाचिद् दृष्टो नापि श्रुतः । एवं सम्यग्मिथ्याष्टेरपि जीवादिपदार्थानामुपरिन रुचिर्न चनिन्दा।।