________________
११-१२ ]
कर्मfaureater प्रथमः कर्मग्रन्थः ।
जन्तोरुपतिष्ठते, अतः 'स्थानस्थितस्वपतृप्रभवप्र चलामपेक्ष्याऽत्तिशायिनीत्वमस्याः, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला ४ | सूत्रे च "पयलपयला" इति हस्वत्वं " दीर्घस्वौ मिश्र वृत्तौ " (सि० ८-१-४) इति सूत्रेण । इति ॥ ११ ॥
३३
दिणचितियत्यकरणी, थोडी ५ अडच किअडबला |
महुलित्तखग्गधारालिहणं व दुहा उ वेषणियं ॥ १२ ॥
स्त्याना – बहुत्वेन सङ्घातमापन्ना गृद्धि: - अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया स्वायावस्थायां सा स्त्यानगृद्धिः । " गौणादयः " (सि० ८-२-१७४) इति प्राकृतसूत्रेण "थीणद्धी" इति निपात्यते । अस्यां हि जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति । श्रूयते ह्येतदागमे कथानकम् – -D/ युं X
क्वचित् प्रदेशे कोऽपि क्षुल्लको द्विरदेन दिवा स्खलीकृतः स्त्यानय द्धृदये वर्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्य मुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा पुनः सुप्तवान् इत्यादि ।
इमां च व्युत्पत्तिमाश्रित्याह - "दिणचितियत्थकरणी थीणद्धी" इति दिने - दिवसे चिन्तितमुपलक्षणत्वा नशायामपि चिन्तितम् - अध्यवसितमर्थं करोति - साधयति निद्रानिद्रावतो - रभेदोपचाराद्दिनचिन्तितार्थकरणी, "रम्यादिभ्यः" (सि० ५ -३ - १२६) कर्तर्यनट्प्रत्ययः । यद्वा स्त्याना -पिण्डीभूता ऋद्धिः - आत्मशक्तिरस्यामिति स्त्यानद्विः, एतत्सद्भावे हि प्रथम संहननस्य केशवार्धवही शक्तिः । एनां च व्युत्पत्तिमाश्रित्याह – “अद्धच किअद्धबल" त्ति अर्धचक्रिणः - वासुदेवस्य चलापेक्षया अर्धं बलं - स्थाम यस्या उदये जन्तोर्भवति साऽर्धचक्रार्धचला, तद्विपाकवेद्या कर्मप्रकृतिरपि थीद्धीति ५ । अत्र चक्षुर्दर्शनावरणादिचतुष्कं मूलत एव दर्शनलब्धिमुपहन्ति, निद्रापञ्चकं तु प्राप्ताया दर्शनलब्धेरुपघातकृत् । आह च गन्धहस्ती -
निद्रादयः समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तुङ्गमोच्छेदित्वात् समूलघातं हन्ति दर्शन लब्धिमिति (तत्त्वार्थ अ० ८ सू० ८ सिद्ध० टीका) ।
५
अभिहितं द्वितीयं नवविधं दर्शनाचरणम् । साम्प्रतं तृतीयं कर्म वेद्यं वेदनीयापरपर्यायं व्याचिख्यासुराह - " महुलित" इत्यादि । मधुना - मधुररसेन लिप्ता - खरण्टिता खड्गस्य-करवालस्य धारा - तीक्ष्णाग्ररूपा तस्या जिह्वया लेहनमिव- आस्वादनसदृशं 'द्विधैच' द्विप्रकारमेव सातासात भेदात् तुशब्द एवकारार्थः, ' वेदनीयं' वेद्यं कर्म भवति । इह च मधुलेहनसन्निभं सातावेदनीयम्, खड्गधाराच्छेदनस 'ममसातवेदनीयम् । उक्तं च
"
१० समानम० ख० ग० ङ० ॥