________________
३२
[ गाथा
देवेन्द्रसूरिविरचितस्वोप झटीकोपेतः 'जं सामनग्गहणं, भावाणं नेव कटु आगाम् ।
अविसेसिऊण अत्थे, दंसणमिय वुच्चए समए ॥(वृ० द्रव्यसं० गा० ४३) 'तस्यावरण दर्शनावरणम् , तत् चतुर्धा भवति-चक्षुर्दर्शनावरणम् १ अचक्षुर्दर्शनावरणम् २ अवधिदर्शनावरणम् ३ केवलदर्शनावरणम् ४ इति गाथाक्षरार्थः । भावार्थस्त्वयम्-इह चक्षुर्दर्शनं नाम यत् चक्षुषा रूपसामान्यग्रहणं तस्यावरणं चक्षुर्दर्शनावरणं चक्षुःसामान्योपयोगावरणमिति यावत् १ । अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं स्वस्वविषयसामान्यपरिच्छेदोऽचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणम् २ । अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणम् ३ । केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं वस्तुसामान्यांशग्रहणं तत् केवलदर्शनं तस्यावरणं केवलदर्शनावरणम् ४ । ____ अत्राह-ननु यथाऽवधिदर्शनावरणं कर्मोच्यते तथा मनःपर्यायज्ञानस्यापि दर्शनावरणं कर्म किमिति नोच्यते ?, उच्यते-मनःपर्यायज्ञानं तथाविधक्षयोपशमपाटवात् सर्वदा विशेपानेव गृह्णदुत्पद्यते, न सामान्यम् , अतस्तदर्शनाभावात्तदावरणं कर्मापि न भवति । अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुःपञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्यति तिमिरादिना वाऽस्पष्टं भवति । चक्षुर्वर्जशेषेन्द्रियमनसां पुनर्यथासम्भवमभवन मस्पष्टभवनं वाऽचक्षुर्दर्शनावरणोदयादिति ॥ १० ॥
अभिहितं दर्शनावरणचतुष्कम् , सम्प्रति निद्रापञ्चकमभिधिन्सुराह
सुहपडियोहा निद्दा १, निहानिद्दा २ य दुक्खपडियोहा ।
पयला ३ ठिओवविद्वस्स पयलपयला ४ उ चंकमओ ॥११॥ सुखेन-अकृच्छेण नखच्छोटिकामात्रेणापि प्रतिबोधः-जागरणं स्वप्तुर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् निद्रेत्युच्यते १ । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'चः' समुच्चये, दुःखेन-कष्टेन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुटतरीभृतचैतन्यत्वेन स्वप्तुः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा, अत एव सुखप्रतिबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा २ । प्रचलति-विघूर्णते यस्यां स्वापावस्थायां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य-आसीनस्य' भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला ३ । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, इयं 'तुः पुनरर्थे 'चक्रमतः' चक्रमणमपि कुर्वतो
१ यत् सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् । अविशेषयित्वाऽर्थान् दर्शनमित्युच्यते समये ।। २०नमचक्षुर्द क० ख० ग घ ङ० ॥२०स्यापि भ० ग०॥