________________
६-१० ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
३१
चउ" इति शब्देन दर्शनावरणचतुष्कं गृह्यते तत्र दृष्टिर्दर्शनम्, दृश्यते परिच्छिद्यते सामान्यरूपं वस्त्वनेनेति वा दर्शनम्, तस्यावरणानि - आच्छादनानि दर्शनावरणानि तेषां चतुष्कं दर्शनावरणचतुष्कम् । तथा "पणनिद्द" त्ति द्रांक् कुत्सितगतौ, नितरां द्राति- कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यासु ता निद्रा, "भिदादयः " ( सि० ५-३-१०८ ) इति अङ्प्रत्ययः, पञ्च' इति पञ्चसङ्ख्याः - निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला४ स्त्यानर्द्धि ५रूपा निद्राः पञ्चनिद्रा निद्रापञ्चकम् । ततो दर्शनावरणचतुष्कं निद्रापञ्चकमिति नवधा दर्शना - वरणं भवति । किं विशिष्टम् ? इत्याह - "वित्तिसमं " ति वेत्रिणा - प्रतीहारेण समं तुल्यं त्रिसमम् । यथा राजानं द्रष्टुकामस्याप्यनभिप्रेतस्य लोकस्य वेत्रिणा स्खलितस्य राज्ञो दर्शनं नोपजायते, तथा दर्शनस्वभावस्याप्यात्मनो येनाssवृतस्य स्तम्भकुम्भाम्भोरुहादिपदार्थसार्थस्य न दर्शनमुपजायते तद् वेत्रिसमं दर्शनावरणम् । उक्तं च
'दंसण सीले जीवे, दंसणघायं करेइ जं कम्मं । तं पडिहारसमाणं, दंसणवरणं भवे कम्मं ॥
जह रन्नो पडिहारी, अणभिप्पेयस्स सो उ लोगस्स । रनो तर्हि दरिसावं, न देइ दठु पि कामस्स ॥ जह राया तह जीवो, पडिहारसमं तु दंसणावरणं । तेहि विबंधएणं, न पेच्छए सो घडाईयं । (बृहत्कर्मवि० ० गा० १६-२१)
अथ दर्शनावरणचतुष्कं व्याचिख्यासुराह -
चक्खूदिभिचक्खूसेसिंदियओहिकेवलेहिं च ।
दंसणमिह सामन्नं, तस्सावरणं तयं चउहा ।। १० ।।
॥ ९ ॥
इह चक्षुः शब्देन दृष्टि ह्यते, अचक्षुः शब्देन "सेसिंदिय" त्ति चक्षुर्वर्जशेषेन्द्रियाणि गृह्यन्ते, ततश्चक्षुश्च अचक्षु अवधि केवलं च चक्षुरचक्षुरवधिकेवलानि तैः चक्षुरचक्षुरवधिके: । चशब्दः " अचक्खूसेसेंदिय" इत्यत्र मनसः संसूचकः | दर्शनम् ' इह' प्रवचने 'सामान्य' सामान्योपयोग उच्यते, यदुक्तम्-
बलैः
१ दर्शनशीले जीवे दर्शनघातं करोति यत् कर्म । तत् प्रतिहारसमानं दर्शनावरणं भवेत्कर्म ॥ यथा राज्ञः प्रतिहारोऽनभिप्रेतस्य स तु लोकस्य । राज्ञस्तत्र दर्शनं न ददाति द्रष्टुमपि कामस्य ॥ यथा राजा तथा जीवः प्रतिहारसमं तु दर्शनावरणम् । तेनेह विबन्धकेन न प्रेक्षते स घटादिकम् ॥