________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा एसिं जं आवरणं, पडु व्व चक्खुस्स तं तयावरणं ।
दसणचउ पणनिद्दा, वित्तिसमं दसणावरणं ॥९॥ । 'एषां' मतिज्ञानादीनां पञ्चानां ज्ञानानां यद् 'आवरणम्' आच्छादकम् , 'पट इव' सूत्रादिनिष्पन्नशाटक इव 'चक्षुषः' लोचनस्य, तत् तेषां-मतिज्ञानादीनामावरणं तदावरणमुच्यते। इदमत्र हृदयम्-यथा घनघनतरघनतमेन पटेनावृतं सत् निर्मलमपि चक्षुर्मन्दमन्दतरमन्दतमदर्शनं भवति, तथा ज्ञानावरणेन कर्मणा घनघनतरघनतमेनावृतोऽयं जीवः शारदशशधरकरनिकरनिर्मलतरोऽपि मन्दमन्दतरमन्दतमज्ञानो भवति, तेन पटोपमं ज्ञानावरणं कर्मोच्यते । तत्रावरणस्य सामान्यत एकरूपत्वेऽपि यत् पूर्वोक्तानेकभेदभिन्नस्य मतिज्ञानस्यानेकभेदमेवाऽऽवरणस्वभावं कर्म तद् मतिज्ञानावरणमेकग्रहणेन गृह्यते चक्षुपः पटलमिव १ । तथा पूर्वाभिहितभेदसन्दोहस्य श्रु तज्ञानस्य यद् आवरणस्वभावं कर्म तत् श्रु तज्ञानावरणम् २ । तथा प्राक्प्रपश्चितभेदकदम्बकस्यावधिज्ञानस्य यद् आवरणस्वभावं कर्म तद् अवधिज्ञानावरणम् ३ । तथा प्रागनिर्णीतभेदद्वयस्य मनःपर्यायज्ञानस्य यद् आवारणस्वभावं कर्म तद् मनःपर्यायज्ञानावरणम् ४ । तथा पूर्वप्ररूपितस्वरूपस्य केवलज्ञानस्य यद् आवरणस्वभावं कर्म तत् केवलज्ञानावरणम् ५ । उक्तं च बृहत्कर्मविपाके
'सरउग्गयससिनिम्मलतरस्स जीवस्स छायणं जमिह । नाणावरणं कम्मं, पडोवमं होइ एवं तु ॥ जह निम्मला वि चक्खू, पडेण केणावि छाईया संती । मंद मंदंतरागं, पिच्छइ सा निम्मला जइ वि ॥ तह मइयनाणावरण अवहिमणकेवलाण आवरणं ।
जीवं निम्मलरूवं, आवरइ इमेहिं भेएहिं ॥ (गा० १०-१२) तदेवमेतानि पञ्चावरणान्युत्तरप्रकृतयः, तनिष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिः । यथाऽगुलीपञ्चकनिष्पन्नो मुष्टिः, मूलत्वपत्रशाखादिसमुदयनिष्पन्नो वा वृक्षः, घृतगुडकणिकादिनिष्पन्नो वा मोदक इति । एवमुत्तरत्रापि भावनीयम् । व्याख्यातं पञ्चविधं ज्ञानावरणं कर्म ॥
___ इदानीं नवविधं दर्शनावरणं कर्म व्याख्यानयन्नाह-'दसणचउ पणनिद्दा वित्तिसमं दसणावरणं" ति । इह भीमो भीमसेन इति न्यायात् पदैकदेशे पदसमुदायोपचाराद्वा "दसण
१ शरदुद्गतशशिनिर्मलतरस्य जीवस्य च्छादनं यदिह। ज्ञानावरणं कर्म पटोपमं भवति एवं तु ।। यथा निर्मलमपि चक्षुःपटेन केनापि च्छादितं सत् । मन्द मन्दतरकं प्रेक्षते तद् निर्मलं यद्यपि || तथा मतिश्रुतज्ञानावरणमवधिमनः केवलानामावरणम् । जीवं निर्मलरूपमावृणोत्येभिर्भेदैः ॥ २ "तह मइसुयनाणाणं मोहीमणकेवलाण आवरणं।" इति बृहत्कर्मविपाके ।