________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्रैशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्न्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिश्य एकोरुकनामा द्वीपो वर्तते, अयं च यचधनुः शतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पद्मचरवेदिकया सर्वतः परिमण्डितः साऽपि च पद्मवरवेदिका सर्वतो वनखण्ड परिक्षिप्ता, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने परिक्षेपः पद्मवरवेदिकाप्रमाणः । तथा तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्य द्वितीयदंष्ट्राया उपरि एकोरुकatraमाण आभासकामा द्वीपो वर्तते । तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरिं यथोक्तप्रमाणो वैषाकिनामा द्वीपः । तथा तस्यैव हिमवतः पश्विमार्या दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः । एवमेते चत्वारो द्वीपा हिमवतचतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते । तत एषामेकोरुकादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं चत्वारि चत्वारि योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्न्यूनपञ्च पष्टिसहितद्वादशयोजनशत परिक्षेपा यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिका तश्चतुर्योजनशतप्रमाणान्तरा हयकर्ण गजकर्ण गोकर्णशष्कुली कर्णनामानश्वत्वारो द्वीपाः । तद्यथा - एकोरुकस्य परतो हयकर्णः, आभासिकस्य परतो गजकर्णः, वैपाणिकस्य परतो गोकर्णः, नाङ्गोलिकस्य परतः शष्कुलीकर्णः, एवमग्रेऽपि भावना कार्या । तत एतेषामपि हयकर्णादीनां चतुर्णामपि द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च पञ्च योजनशतान्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक पञ्चदशयोजनशतपरिक्षेषाः पूर्वोक्तप्रमाणपद्म वरवेदिकावनखण्डमण्डितबाह्यप्रदेशा जम्बुद्वीपवेदिकातः पञ्च योजनशतप्रमाणान्तरा आदर्शमुखमेण्ड मुखाऽयोमुख गोमुखनामानश्वत्वारो द्वीपाः । एतेषामप्यादर्शमुखादीनां चतुर्णां द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पट् प योजनशतान्यतिक्रम्य पड्योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेमा यथोक्तप्रमाणपद्म वर वेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातः षड्योजन - शतप्रमाणान्तरा अश्वमुखहस्तिमुख सिंह मुखच्याघ्रमुखनामानश्वत्वारो द्वीपाः । एतेषामप्यवमुखादीनां चतुद्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त सप्त योजनशतान्यतिक्रम्य सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पूर्वोक्तप्रमाणपद्मवश्वेदिकावनखण्ड समवगूढा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहयकर्णाकर्णकर्णप्रावरणनामानश्वत्वारो द्वीपाः । तत एतेषामश्वकर्णादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्त
२६