________________
.२५
कर्मविपाकनामा प्रथमः कर्मग्रन्थः। स्वतन्त्रं ज्ञानमेव गृह्यत इति । अथवा ऋज्वी-सामान्यग्राहिणी मतिरस्यासौ ऋजुमतिः । विपुलाविशेषग्राहिणी मतिरस्य स विपुलमतिः, अस्यां व्युत्पत्ती तद्वान् गृह्यते । यद्वा मनःपर्यायज्ञानं चतुर्विधम्-द्रव्यक्षेत्रकालभावभेदात् । उक्तं च
- 'तं समासओ चउव्विहं पन्नत्तं, तं जहा-दब्बओ खित्तओ कालओ भावओ । दव्वओ णं उजुमई अणंते अणंतपएसिए खंधे जाणइ पासइ । ते चेव विउलमई अब्भहियतराए विमलतराए जाणइ पासइ (नन्दी पत्र १०७-२) त्ति ।
क्षेत्रतः पुनऋजुमतिरधो यावदधोलौकिकग्रामान जानाति । यदाहुश्चतुर्दशप्रकरणशतप्रासादसूत्रधारकल्पप्रभुश्रीहरिभद्रसूरिपादा नन्दिवृत्ती
इहाधोलौकिकान ग्रामान , तिर्यग्लोकविवर्तिनः ।
मनोगतांस्त्वसौ भावान् , वेत्ति तद्वर्तिनामपि ।। (पत्र ४७) ऊर्ध्वं यावद् ज्योतिश्चक्रस्योपरितलम् । ___तिरियं जाव अंतो मणुस्सखित्ते अड्राइज्जेसु दीवेसु दोसु य समुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणइ पासइ । तं चेव विउलमई अड्राइज्जेहि अंगुलेहिं अब्भहियतरयं विसुद्धतरयं खेत्तं जाणइ पासइ । (नन्दी पत्र १०४-१) ।
इह व्याख्या-'अन्तः' मध्ये मनुष्यक्षेत्रस्य 'अर्धतृतीयद्वीपेषु' जम्बुद्वीपधातकीखण्डपुष्करवरद्वीपार्थेषु 'द्वयोः समुद्रयोः' लवणसमुद्रकालोदसमुद्रयोः 'पञ्चदशसु कर्मभूमिषु' भरतपश्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणासु 'त्रिंशत्यकर्मभूमिषु' हैमवतपञ्चकहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यकपश्चक हैरण्यवतपञ्चकरूपासु । तथा लवणसमुद्रस्यान्तमध्ये भवा द्वीपा आन्तरद्वीपास्ते च षट्पञ्चाशत्सङ्ख्याः । तथाहि-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्यपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टयों नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्श्वः सर्वत्र तुल्यविस्तरो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितो वज्रमयतलविविधमणिकनकमण्डितभूमिभागदशयोजनावगाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरपञ्चयोजनशतविस्तारपद्मह्रदशोभितशिरोमध्य-- विभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवनाम पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे
१ तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः। द्रव्यत ऋजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान जानाति पश्यति । तानेव विपुलमतिरभ्यधिकतरान् विमलतरान् जानाति पश्यति ।। २ एतद् वृत्तं नन्दिचूर्णावप्यस्ति ।