SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गाथा जोयणसहस्साई, उक्कोसेणं लोगं पासित्ताणं परिवडिज्जा, से तं पडिवाई । (नन्दी पत्र ९३-२) तथा न प्रतिपाति अप्रतिपाति, यत् किलाऽलोकस्य प्रदेशमेकमपि पश्यति तद् अप्रतिपातीति भावः ६। हीयमानकप्रतिपातिनोः कः प्रतिविशेषः ? इति चेद् उच्यते-हीयमानक पूर्वावस्थातोऽधोऽधो हासमुपगच्छदभिधीयते, यत् पुनः प्रदीप इव निमूलमेककालमपगच्छति तत् प्रतिपातीति । यद्वाऽनन्तद्रव्यभावविषयत्वात् तत्तारतम्यविवक्षयाऽनन्तभेदम् , असङ्खये यक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसङ्खये यभेदमवधिज्ञानम् । यद्वा चतुर्विधमवधिज्ञानं द्रव्यक्षेत्रकालभावात् । तथा चाह 'तं समासओ चउन्विहं पन्नत्तं, तं जहा-दव्यओ खेत्तओ कालो भावओ । दव्वओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्याईजाणइ पासइ, उक्कोसेणं सव्यरूविदव्याई जाणइ पासइ । खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेन्जाई अलोए लोयप्पमाणमित्ताई खंडाइं जाणइ पासइ । कालओ णं ओहिनाणी जहन्नेणं आवलियाए असं. खिज्जइभाग, उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ तीयं च अणागयं च कालं जाणइ पासइ । भावओ णं ओहिनाणी जहन्नेण वि अणते भावे जाणइ पासइ, उक्कोसेण त्रि अणंते भावे जाणइ पासइ सव्वभावाणं अणंतभागं। (नन्दी पत्र १७-१) इति । उक्तमवधिज्ञानम् । इदानीं मनःपर्यवज्ञानं व्याख्यानय नाह-"रिउमइविउलमई मणनाणं" ति । 'मनोज्ञानं' मनःपर्यायज्ञानमित्यर्थः, ऋजुमतिविपुलमतिभेदाद्विविधम् । तत्र ऋज्वी. सामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः । यदाह रिउ सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं । पायं विसेसविमुह, घडमित्तं चिंतियं मुणइ ।। (विशे० गा० ७८४) तथा विपुला-विशेषग्राहिणी मतिर्विपुलमतिः, घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति भावार्थः, अस्यां व्युत्पत्तौ १ तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः । द्रव्यतोऽवधिज्ञानी जघन्येनानन्तानि रूपिद्रव्याणि जानाति पश्यति, उत्कर्पण सर्वरूपिद्रव्याणि जानाति पश्यति । क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गुलस्यासङ्घय यभागम् , उत्कर्षणाऽसङ्खये यानि अलोके लोकप्रमाणमात्राणि खण्डानि जानाति पश्यति । कालतोऽवधिज्ञानी जघन्येनाऽऽवलिकाया असङ्घय यभागम् , उत्कर्षणाऽसङ्खये या उत्सर्पिण्यवसर्पिणीः अतीतं चानागतं च कालं जानाति पश्यति । भावतोऽवधिज्ञानी जघन्येनाप्यनन्तान भावान् जानाति पश्यति, उत्कर्षणापि अनन्तान् भावान् जानाति पश्यति सर्वभावानामनन्तभागम् ॥ २ ऋजु सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं, घटमात्रं चिन्तितं जानाति ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy