________________
- २३
कर्मविपाकनामा प्रथमः कर्मग्रन्थः V से 'किं तं अणाणुगामियं ओहिनाणं ? अणाणुगामियं ओहिनाणं से जहानामए केइ पुरिसे एग महं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेसु परिपेरंतेसु परिहिंडमाणे परिहिंडमाणे परिघोलमाणे परिघोलमाणे तमेव जोइट्ठाणं पासइ अन्नत्थ गए न पासइ, एवमेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पज्जइ तत्व संखिजाणि वा असंखिज्जाणि वा जोयणाई पासइ न अन्नत्थ । (नन्दी पत्र ८९-१) भाष्यकारोऽप्याह
अणु गामि उ अणुगच्छइ, गच्छंतं लोयणं जहा पुरिसं।
इयरो उ नाणुगच्छइ, ठियप्पईवु व्व गच्छंतं ।। (विशे० गा० ७१५) तथा वर्धत इति वर्धमानम् , ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादभिवर्धमानज्वलनज्वालाकलाप इव — पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसायतो वर्धमानमवधिज्ञानं वर्धमानकम् । एतत् किलागुलासङ्घय यभागादिविषयमुत्पद्य पुनवृद्धिं विषयविस्तरणात्मिका याति यावदलोके लोकप्रमाणान्यसङ्खये यानि खण्डानीति ३ | तथा हीयते-तथाविधसामग्रयभावतो हानिमुपगच्छतीति हीयमानम् , कर्मक विवक्षायाम् अनट्प्रत्ययः, हीयमानमेव हीयमानकम् , "कुत्सिताल्पाज्ञाते" (सि० ७-३-१३) कप्रत्ययः, पूर्वावस्थातो यदधोऽधो हासमुपगच्छति तद् हीयमानकमवधिज्ञानमिति ४ । उक्तं च नन्दिचूर्णी--
"हीयमाणं पुबावत्थाओ अहोऽहो हस्समाणं (पत्र १४) इति । तथा प्रतिपततीत्येवंशीलं प्रतिपाति ५ । यदाहसे' किं तं पडिवाई ? पडिवाई जन्नं जहन्नेणं अंगुलस्स असंखिज्जभागं वा संखिज्जभागं वा वालग्गं वा वालग्गपुहत्तं वा एवं लिक्खं वा जूयं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा, एवं एएणं अहिलावेणं विहत्थि वा हत्थं वा कुच्छि वा कुक्षिहस्तद्वयमुच्यते धणुवा गाउयं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा संखिज्जाणि वा असंखिज्जाणि वा
१ अथ किं तदनानुगामिकमवधिज्ञानम् ? अनानुगामिकमवधिज्ञानं स यथानामकः कश्चित्पुरुष एक महज्ज्योतिःस्थानं कृत्वा तस्यैत्र ज्योतिःस्थानस्य परिपर्यन्तेषु परिपर्यन्तेषु परिहिण्डमानः परिहिण्डमानः परिघोलयमानः परिघोलयमानः तदेव ज्योतिःस्थानं पश्यति अन्यत्र गतो न पश्यति, एवमेव अनानुगामिकमवधिज्ञानं यत्रैव समुत्पद्यते तत्रैव सङ्घय यानि वाऽसङ्खये यानि वा योजनानि पश्यति नान्यत्र ।। २०वामेव ख०॥ अनुगामि त्वनुगच्छति गच्छन्तं लोचनं यथा पुरुषम् । इतरत्तु नानुगच्छति स्थितप्रदीप इव गच्छन्तम्॥४ गामिओऽगु० ग १५ हीयमानं पूर्वावस्थातोऽधोऽधो हस्यमानं ॥६ अथ किं तत् प्रतिपाति ? प्रतिपाति यद् जघन्येनाङ्गुलस्यासङ्घय यमागं वा सङ्घथे यमागंवा वालाग्रं वा वालाग्रपृथक्त्वं वा एवं लिक्षा वा यूकां वा यवं वा बवपृथक्त्वं वा अङगुलं वा अङ्गुलपृथक्त्वं वा, एवमेतेनाभिलापेन वितस्ति वा हस्तं वा कुक्षि वा धनुर्वा क्रोशं वा योजनं वा योजनशतं वा योजनसहस्र वा सङ्खये यानि वा असङ्ख्य यानि वा योजनसहस्राणि, उत्कर्षण लोकं दृष्ट्रा प्रतिपतेत् , एतत्तत् प्रतिपाति ।