________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । रादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपनवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातोऽष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविद्युदन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीपामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक नव नव योजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातो नवयोजन. शतप्रमाणान्तरा घनदन्तलष्टदन्तगृढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते सप्त चतुष्का हिमवति पर्वते चतसृष्वपि विदिशु व्यवस्थिताः, सर्वमङ्याऽष्टाविंशतिः । एवं हिमवत्तल्यवर्णप्रमाणे पद्मदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु व्यवस्थिता एकोस्कादिनामानोऽक्षण्णापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः, सर्वसत्यया पट्पञ्चाशदन्तरद्वीपाः । एतद्ता मनुष्या अप्येतनामान उपचारात् , भवति च तास्थ्यात् तद्व्यपदेशः, यथा पञ्चालदेशनिवासिनः पुरुषाः पश्चाला इति । ते च मनु या बज्रऋषभनाराचसंहनिनः समचतुरत्रसंस्थानाः सर्वाङ्गोपाङ्गसुन्दराः कमण्डलुकलशयूपस्तूपवापीध्वजपताकासौवस्तिकयवमत्स्यमक'रकूमेरथवरस्थालांशुकाष्टापदाङ्कुशसुप्रतिष्ठकमयूर श्रीदामाभिषेकतोरणमेदिनीजलधिवरभवनादशेपर्वतगजवृषभसिंहचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या मार्दवार्जबसम्पन्नाः सत्यषि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैगनुबन्धा हस्त्यश्वकरभगोमहिपादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः । तेषां पृष्ठकरण्डकानि चतुःषष्टिसङ्ख्याकानि, चतुर्थातिक्रमे चाहारग्रहणम् , आहारोऽपि च न शाल्यादिधान्यनिष्पन्नः किन्तु पृथिवीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च । तथाहि-जायन्ते खलु तत्रापि विस्रसात एव शालिगोधूममुद्गमाषादीनि धान्यानि परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथिवी सा शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमफलानामास्वादः स चक्रवर्तिभोजनादप्यधिकगुणः । यदुक्तम्
'तेसिं णं भंते ! पुष्फफलाणं केरिसए आसाए पन्नत्ते ? गोयमा ! से जहानामए रणो चाउरंतचकवाट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिष्फन्ने वन्नोववेए गंधोक्वेए रसोववेए
१ तेषां भगवन् ! पुष्यफलानां कीदृश आस्वादः प्रज्ञप्तः ? गौतम ! स यथानामकः राज्ञश्चातुरन्त चक्रवर्तिनः कल्याणं मोजनजातं शतसहस्रनिष्पन्नं वर्णोपपेतं गन्धोपपेतं रसोपपेतं स्पर्शापपेतं आस्वादनीयं विस्वादनीयं