________________
[गाथा
देवेन्द्रपरिविरचितस्वोपझटीकोपतः 'पाएण संपयं चिय, कालम्मि न यावि दीह कालंजा । ते हेउवायसन्नी, निचिट्ठा हुँति अस्सण्णी ।।
सम्मदिडी सन्नी, संते नाणे खओवसमियम्मि ।
अस्सण्णी मिच्छत्तम्मि दिहिवाओवएसेणं ।। (विशे० गा० ५१५-१७) ततश्च संज्ञा विद्यते येषां ते संज्ञिनः, परं सर्वत्राप्यागमे ये दीर्घकालिक्या संज्ञया संज्ञिनस्ते संजिन उच्यन्ते, ततः संज्ञिनां श्रुतं संजिश्रुतम् समनस्कानां मनःसहितेरिन्द्रियैर्जनितं श्रुतं संज्ञिश्रुतमिति भावः ३ । मनोरहितेन्द्रियजं श्रुतमसंज्ञिश्रुतम् ४ । तथा सम्यग्दृष्टेरर्हत्प्रणीतं मिथ्यादृष्टिप्रणीतं वा यथास्वरूपमवगमात् सम्यक्श्रुतम् ५ । मिथ्यादृष्टेः (पुनरर्हत्प्रणी. तमितरद्वा मिथ्याश्रुतं, यथास्वरूपमनवगमात् ६ ।।
___ आह-मिथ्यादृष्टेरपि मतिश्रुते सम्यग्दृष्टेरिव तदावरणकर्मक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिख पृथुयुध्नोदराद्याकारं घटादिकं च संविदाते, तत् कथं मिथ्यादृष्टेरज्ञाने ? उच्यते-सदसद्विवेकपरिज्ञानाभावात् । तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरःसरं प्रतिपद्यते, न भगवद्क्तस्याद्वादनीत्या, ततो घट एवायमिति यदा व ते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपत्तेः घटः सन्नेवेति व बाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यतेः ततः सन्तमसन्तं प्रतिपद्यतेऽसन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेमैतिश्रुते । इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात् । तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी । तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत् । तथाहि-उन्मत्तकविकल्पा वस्त्वन पेक्ष्यैव यथाकथञ्चित् प्रवर्तन्ते; यद्यपि च ते वचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्वपर्यालोचनाविरहेण प्रवर्तमानत्वात् परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीना मतिश्रुते यथावद्वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि ते क्वचिद्रसोऽयं स्पर्शोऽयमित्यादाववधारणाध्यवसायाभावे संवादिनी तथापि न ते स्याद्वादमुद्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथञ्चित् , अतस्ते अज्ञाजे । तथा ज्ञानफलाभावात् , ज्ञानस्य हि फलं हेयस्य हानिरुपादेयस्य चोपादानम् , न च संसारात् परं किञ्चन हेयमस्ति, न च मोक्षात् परं किश्चिदुपादेयम् , ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च तत्त्वतो ज्ञानस्य फलम् । तथा चाह भगवानुमास्वातिवाचक:
१ प्रायेण साम्प्रतमेव काले न चापि दीघकालज्ञाः। ते हेतुवादसंज्ञिनः निश्चेष्टा भवन्ति असंझिनः ॥ २०कालना क० ॥३ सम्यग्दृष्टिः संज्ञी सति ज्ञाने क्षायोपशमिके । असंज्ञी मिथ्यात्वे दृष्टिवादोपदेशेन ।।