________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । 'मालविणी ११ नडि १२ नागरि १३, लाडलिवी १४ पारसी १५ य बोधव्या ।
तह अनिमित्तीय १६ लिवी, चाणकी १७ मूलदेवी य १८ ॥ व्यञ्जनाक्षरमकारादि हकारपर्यन्तमुच्यते । तदेतद्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतम् । लब्ध्यक्षरं तु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाऽक्षरोपलब्धिः । यदाह---
__ जो अक्सरोवलंभो, सा लद्धी तं च होइ विनाणं ।
इंदियमणोनिमित्तं, जो आवरणस्खओक्समो ।। (विशे० गा० ४६६) ततोऽक्षरैरभिलाप्यभावानां प्रतिपादनप्रधानं श्रुतमक्षरश्रुतम् १ । नन्वनभिलाप्या अपि कि केचिद्भावाः सन्ति, येनैवमुच्यतेऽभिलाप्यभावानां प्रतिपादनप्रधानं श्रुतम् ? इति, उच्यतेसन्त्येव । यदाहुः श्रीपूज्या:
*पण्णवणिज्जा भावा, अशंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अगंतभागो सुयनिबद्धो । जं चउदसपुवधरा, छट्ठाणगया परुप्परं हुंति । तेण उ अणंतभागो, पण्णवणिज्जाण जं "सुत्तं ।। अक्खरलंभेग समा, ऊगहिया हुँति मइविसेसेणं ।
ते वि हु मई विसेसा, सुयनाणभंतरे जाण (विशे० गा० १४१-४३) अनक्षरश्रुतं श्वेडितशिरःकम्पनादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्रायपरिज्ञानम् २। तथा संज्ञितं तत्र संज्ञानं संज्ञा "उपसर्गादातः" (सि० ५-३-११०) इत्यङ्प्रत्ययः । सा च त्रिविधा-दीर्घकालिकी हेतुवादोपदेशिकी दृष्टिवादोपदेशिकी । यदाह भाष्यसुधा भोनिधिः
"इह दीहकालिगी कालिगि त्ति सन्ना जया सुदीहं पि । संभरइ भूयभिस्सं, चिंतेइ य किह णु कायव्यं ।। (विशे० गा० ५०८) 'जे पुण संचिंतेउं, इट्ठाणिठेसु विसयवत्थूसु ।
वट्टति नियत्तंति य, सदेहपरिवालणाहेउं ।। १ मालविनी नटी नागरी लाटलिपिः पारसी च बोद्धव्या । तथाऽनिमित्तिका लिपिश्चाणक्या मूलदेवी च ॥ २ योऽक्षरोपलम्भः सा लब्धिस्तच्च भवति विज्ञानम् । इन्द्रियमनोनिभित्तं य आवरणक्षयोपशमः ।। ३ प्रज्ञा- - पनीया मावा अनन्तभागस्त्वनभिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ ४ यञ्चतुर्दशपर्वधराः षटस्थानगताः परस्परं भवन्ति । तेन त्वनन्तमागः प्रज्ञापनीयानां यत सत्रम ॥ ५ वृत्तंक० घ०॥ ६ अक्षरलम्भेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि तु मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानौहि।। ७ इह दीर्घकालिकी कालिकीति संज्ञा यया सुदीर्घमपि। संस्मरति भूतमेष्यत् चिन्तयति च कथं नु कर्तव्यम् ।। ८ ये पुनः सञ्चिन्त्य इष्टानिष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च स्वदेहपरिपालनाहेतोः ।।