________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
अश्रुतनितिबुद्धि चतुष्टयेन सह चत्वारिंशदधिकानि त्रीणि शतानि मतिज्ञानस्य भेदानां भवन्ति । यद्वा मतिज्ञानं चतुर्विधं द्रव्यक्षेत्रकालभावभेदात् । यदाहुर्निर्दलिताज्ञानसम्भारप्रसराः 'श्रीदेवर्डिवाचकवराः
१६
तं समासओ चउन्विहं पन्नत्तं तं जहा -- दव्वओ खेत्तओ कालओ भावओ । दव्वओ णं आभिणियोहियनाणी आए सेणं सव्वदव्वाई जाणइ न पासइ । खित्तओ णं आभिणित्रोहियनाणी आए सेणं सव्वं खित्तं जाणइ न पासइ । कालओ णं आभिणिबोहियनाणी आए सेणं सव्वकालं जाइन पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सव्वभावे जाणइ न पासइ । ( नन्दी पत्र १ ८ ३ २ ) इति ।
3
व्याख्यातं सप्रपञ्चं मतिज्ञानम् । साम्प्रतं श्रुतज्ञानं व्याचिख्यासुराह--' चउदसहा वीसहा वसुयं" ति 'श्रुतं' श्रुतज्ञानं ) ' चतुर्दशधा ' चतुर्दशभेदं 'विंशतिधा' विंशतिप्रकारं ' वा भवतीति ॥ ५ ॥ तत्र प्रथमं श्रुतस्य चतुर्दश भेदान् व्याख्यानयन्नाह
अक्खर सन्नी सम्मं, साईअं खलु सपज्जवसियं च । गमियं अंग विट्ठ', सत्त वि एए सपविक्खा || ६ ||
इह श्रुतशब्दः पूर्व गाथातः सम्बध्यते । ततोऽक्षरश्रुतं १ संज्ञिश्रुतं २ सम्यक् श्रुतं ३ सादिश्रुतं ४ सपर्यवसितश्रुतं ५ गमिकश्रुतम् ६ अङ्गप्रविष्टश्रुतम् ७ इत्येते सप्त भेदाः सप्रतिपक्षाः श्रुतस्य चतुर्दश भेदा भवन्ति । तथाहि - अक्षरश्रुतप्रतिपक्षम् अनक्षरश्रुतम् १ एवमसंशिश्रुतं २ मिथ्याश्रुतम् ३ अनादिश्रुतम् ४ अपर्यवसितश्रुतम् ५ अगमिकश्रुतम् ६ अङ्गबाह्यश्रुतम् ७ इति । तत्राक्षरं त्रिधा - संज्ञाव्यञ्जनलब्धिभेदात् । उक्तं च-
* तं सन्नावंजणलद्धिसन्नियं तिविहमक्खरं भणियं ।
सुबहुलिविभेयनिययं, सन्नक्खर मक्खरागारो || (विशे० गा० ४६४ ) सुबह्वयो या एता अष्टादश लिपयः श्रूयन्ते, तथाहि-
X
हंसलिवी १ भूयलिबी २, जक्खी ३ तह रक्खसी ४ य बोधव्वा । उड्डी ५ जण ६ तुरुक्की ७, कीरी ८ दविडीय सिंघविया १० ॥
१०ववाचक० क० ङ० ।। २ तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा - द्रव्यतः क्षेत्रतः काळतो भावतः । द्रव्यतः णमिति वाक्यालङ्कारे ( एवं सर्वत्र) आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति । क्षेत्रतः आभिनिबोधिकज्ञानी आदेशेन सर्वं क्षेत्रं जानाति न पश्यति । कालतः आभिनिबोधिकज्ञानी आदेशेन सर्वं कालं जानाति न पश्यति । भावतः आभिनिबोधिकज्ञानी आदेशेन सर्वान भावान् जानाति न पश्यति । ३ ०कारं भव० क० ख० ० ॥ ४ तत् संज्ञाव्यञ्जनलब्धिसंज्ञिक त्रिविधमचरं भणितम् । सुबहुलिपि भेदनियतं संज्ञाक्षरमक्षराकारः।। ५ हंसलिपिभूतलिपिर्यंक्षी तथा राक्षसी च बोद्धव्या । ओकी यवनी तुरुष्की कीरी द्राविडी च सिन्धविका ॥। ६ पुरुक्की क० ख०ग० ङ० ॥