________________
कर्मविपाकनामाः प्रथमः कर्मग्रन्थः ।
पूर्वोक्तप्रकारेणार्थावग्रहादीनां चतुर्णां प्रत्येकं षड्विधत्वात् व्यञ्जनावग्रहभेदचतुष्टयेन सह श्रुतनिश्रितं मतिज्ञानमष्टाविंशतिभेदं भवति । अश्रुतनिश्रितेन त्वौत्पत्तिक्यादिबुद्धिचतुटयेन सह द्वात्रिंशद्भेदं भवति । जातिस्मरणमपि समतिक्रान्तसङ्ख्यातभवावगमस्वरूपं मतिज्ञानभेद एव । तथा चाचाराङ्गटीका
५ ]
-
१५
. जातिस्मरणं त्वाभिनिबोधिक विशेषः || ( पत्र २० -- १)
अथवा "बहु बहुविध र क्षिप्रा ३ ऽनिश्रिता ४ऽसन्दिग्ध ५ ब्रुवाणां६ सेतराणाम् " ( तत्त्वा० अ० १ सू० १६) इति वचनादष्टाविंशतिरपि द्वादशधा भिद्यते । तथाहि -बहूनामपि श्रोतॄणामविशेषेण प्राप्तिविषयस्थेऽपि शङ्खभेर्यादितूर्य समुदाये क्षयोपशमवैचित्र्यात् कश्चिदवग्रहादिभिर्व गृह्णाति, एकहेलास्फालितानामपि शङ्खभेर्यादितूर्याणां पृथक् पृथक् शब्दं गृह्णातीत्यर्थः १ । अपरस्त्वबहु गृह्णाति, अव्यक्ततूर्यध्वनिमेवोपलभत इत्यर्थः २ । अन्यस्तु योषिदादिवाद्यमानतामधुरमन्द्रत्वादिबहुपर्यायोपेतान् शङ्खादिध्वनीन् पृथक् पृथग् जानातीति बहुविधग्राहीत्युच्यते ३ । एकद्विपर्यायोपेतांस्तु तानेव जानानोऽबहुविधग्राही ४ । अन्यस्तु क्षिप्रमचिरेणार्थं जानाति ५ । अन्यस्तु विमृश्य चिरेणेति ६ । अन्यस्त्वनिश्रितमलिङ्गं गृह्णाति न पुनः पताकयेव देवकुलम् ७ । अपरस्तु पताकया देवकुलमिव लिङ्गनिश्रया गृह्णाति ८। यद् असंशयं गृह्णाति तद् असन्दिग्धम् ९ | संशयोपेतं तु यद् गृह्णाति तत् सन्दिग्धम् १० | यद् एकदा गृहीतं तत् सर्वदैवावश्यं गृह्णाति न पुनः कालान्तरे तद्ग्रहणे परोपदेशादिकमपेक्षते तद् ध्रुवम् ११ | यत् पुनः कदाचिदेव गृह्णाति न सर्वदा तद् अध्रुवम् १२ । एवमेतैर्द्वादशभिर्भेदैरवग्रहादयः पूर्वोक्तभेदयुक्ता वस्तु गृह्णन्तीत्यष्टाविंशत्या द्वादशभिर्गुणितया त्रीणि शतानि षट्त्रिंशदधिकानि भवन्ति । यदाह भाष्य पीयूष पयोधि:--
बहुविहखिप्पा निस्सियनिच्छ्यिधुवेयेरविभत्ता | पुणरुम्गहादओ तो, तं छत्तीसं तिसयभेयं ॥ 'ना'णासदसमूहं, बहुं पिहं मुणइ भिन्नजाईयं । बहुविहगभेयं, इक्किं निद्धमहुराई ||
• खिप्यमचिरेण तं चिय, सरूवओ तं अणिस्सियमलिंगं ।
निच्छियमसंसयं जं, धुवमच्चंतं न य कयाई || (विशे० गा० ३०७ - ९)
१ ०न पृथग जा० क० ख० ग० ॥। २०३य विमृश्य चि० ख० घ० ड० ॥ ३ यद् बहुबहुविधक्षिप्रानिश्रितनिश्चितत्र, वेतरविभक्ताः । पुनरवग्रहादयोऽतस्तत षटूत्रिंशस्त्रिंशतभेदम् ॥ ४ नानाशब्दसमूहं बहु पृथग् जानाति भिन्नजातिकम् । बहुविधमनेकभेदमे के कं स्निग्धमधुरादिं ॥ ५ नाणं सद्द० क० ख० ग० घ०ङ० ||६ क्षिप्रमचिरेण तच्चैव स्वरूपतः तद निश्रितमलिङ्गम् । निश्चितमसंशयं यद् ध्रुवमत्यन्तं न च कदाचित् ।