________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा ___ अन्यस्त्वाह-व्यवहितार्थानुपलब्धेरनुमानात् प्राप्तकारित्वं लोचनस्येति, एतदयुक्तम् , अनैकान्तिकत्वात् , काचाभ्रपटलस्फटिकान्तरितस्याप्युपलब्धेः । स्यादेतत् , नायना रश्मयो निर्गत्य तमर्थं गृह्णन्तीति दर्शनरश्मीनां तैजसत्वात् तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदध्ययुक्तम् , महाज्वालादो प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यम् तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् ।
व्यञ्जनावग्रहस्य च कालो जघन्य आवलिकासङ्ख्येयभागतुल्यः, उत्कृष्ट आनप्राणपृथक्त्वम् । उक्तं च
'वंजणवग्गहकालो, आवलियअसंखभागतुल्लो उ ।
थोत्रो उक्कोसो पुण, आणापाणप्पहु ति ।। इति ।। ४ ।। उक्तश्चतुर्धा व्यञ्जनावग्रहः । अथार्थावग्रहादीन् व्याचिख्यासुराह
अत्थुग्गहईहावायधारणा करणमाणसहि छहा । ___ इय अट्ठवीसभेयं, चउदसहा वीसहा व सुयं ॥५॥
अर्यत इत्यर्थस्तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः । स च करणमानसेः पोढा भवति, तत्र करणानि चेन्द्रियाणि पञ्च मानसं च मनः करणमानसानि तैः करणमानसः कृत्वा । इदमुस्तं भवति--प्रोत्रेन्द्रियार्थावग्रहः १ चक्षुरिन्द्रियार्थावग्रहः २ घ्राणेन्द्रियार्थावग्रहः ३ रसनेन्द्रियार्थावग्रहः ४ स्पर्शनेन्द्रियार्थावग्रहः ५ मानसार्थावग्रहः ६ इति पोढाऽर्थावग्रहः । तथाऽवगृहीतस्यैव वस्तुनः 'किमयं भवेत् स्थाणुरेव ? न तु पुरुषः' इत्यादिवस्तुधर्मान्वेषणात्मक ज्ञानचेष्टनमीहा, ईहनमीहेति कृत्वा ।
अरण्यमेतत् सविताऽस्तमागतो, न चाधुना सम्भवतीह मानवः ।
प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना ॥ इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखतालिङ्गितो ज्ञानविशेष ईहेति हृदयम् । साऽपि करणमानसः षोठेव । तथा ईहितस्यैव वस्तुनः स्थाणुरेवायमिति निश्चयात्मको बोधविशेषोऽपायः, अयमपि करणमानसः पोढा । तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं धारणा । साऽपि करणमानसैः पोढेव । अर्थावग्रहादीनां च कालप्रमाणमिदम्
'उग्गह एक्कं समयं, ईहाऽवाया मुहुत्तमद्धं तु ।
कालमसंखं संखं, च धारणा होइ नायव्वा ।। (आ० नि० गा० ४) इति । १ व्यञ्जनावग्रहकाल आवलिकासङ्घयभागतुल्यस्तु । स्तोक उत्कृष्टः पुनरानप्राणपृथक्त्वमिति ।। २ स्थाणुनाम्नेत्यर्थः ।। ३ अवग्रह एक समयमीहाऽपायौ मुहूर्तमध्यं (भिन्नमुहूर्त) तु । कालमसङ्ख्यातं सङ्ख्यातं च धारणा भवति ज्ञातव्या ।।