________________
३७-३८ ] चन्द्रर्षिमहत्तरकृतं सप्तति काप्रकरणम्
२३१ सप्तवापर्याप्ताः । इयमत्र भावना-सप्तानामपर्याप्तानां पञ्च पञ्च बन्धस्थानानि, द्वे द्वे उदयस्थाने, पञ्च पञ्च सत्तास्थानानि । तत्र बन्धस्थानान्यनि-त्रयोविंशतिः पञ्चविंशतिः पड्विशतिः एकोनत्रिंशत् त्रिंशत् । अपर्याप्ता हि सप्तापि तियंग-मनुष्यप्रायोग्यमेव बध्नन्ति, न देव-नारकप्रायोग्यम् , ततो यथोक्तान्येवेह बन्धस्थानानि प्राप्यन्ते, नोनाधिकानि । तानि च तिर्यग-मनुष्यप्रायोग्याणि प्रागिव सप्रपञ्च वक्तव्यानि । उदयस्थाने पुनरपर्याप्तवादर-सूक्ष्मेकेन्द्रि ययोरिम--एकविंशतिश्चतुर्विंशतिश्च । तत्रापर्याप्तवादरस्यकविंशतिरियम्--तिर्यग्गतिः तिर्यगानुपूर्वी तैजसं कामणं अगुरुलघु वर्णादिचतुष्टयम् एकेन्द्रियजातिः स्थावरनाम बादरनाम अपर्याप्तकनाम स्थिरा-ऽस्थिरे शुभा-ऽशुभे दुर्भगम् अनादेयम् अयशःकीर्तिः निर्माणमिति । एषा चैकविंशतिरपान्तरालगतौ वर्तमानस्य प्राप्यते, अत्र चेक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामुदयाभावात् । सूक्ष्मापर्याप्तकस्याप्येपै कविंशतिरवसेया, नवरं बादरनामस्थाने सूक्ष्मनामेति वक्तव्यम् , अत्राप्येक एव भङ्गः । उभयोरपि तस्यामेकविंशतो औदारिकशरीरं हुण्डसंस्थानम् उपघातनाम प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टये प्रक्षिप्ते तिर्यगानुपूर्त्यां चापनीतायां चतुर्विंशतिः, अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ द्वौ भङ्गो । तदेवं द्वे द्वे उदयस्थाने अधिकृत्य द्वयोरपि प्रत्येकं त्रयस्त्रयो भङ्गाः, विकलेन्द्रिया-ऽसंज्ञि-संश्यपर्याप्तानां प्रत्येकमिमे द्वे द्वे उदयस्थाने, तद्यथा--एकविंशतिः पविशतिश्च । तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियम्-- तैजसं कार्मणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः त्रसनाम बादरनाम अपर्याप्तकनाम दुर्भगम् अनादेयम् अयशःकीर्तिरिति । एषा चैकविंशतिरपान्तरालगतो वर्तमानस्यावसे या । अत्र सर्वाण्यपि पदान्यप्रशस्तान्ये वेति एक एव भङ्गः । ततः शरीरस्थस्यौदारिकम् औदारिकाङ्गोपाङ्ग हुण्डसंस्थान सेवा संहननम् उपघातं प्रत्येकमिति प्रकृतिपटक प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पविशतिर्भवति, अत्राप्येक एव भङ्गः । एवं त्रीन्द्रियादीनामप्यवगन्तव्यम् , नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियजातिरित्यायुच्चारणीयम् । तदेवमपर्याप्तद्वीन्द्रियादीनां प्रत्येक द्वे द्वे उदयस्थाने अधिकृत्य द्वो द्वौ भङ्गो वेदितव्यो, केवलमपर्याप्त ज्ञिनश्चत्वारः, यतो वो भङ्गावपर्याप्तसंज्ञिनस्तिरश्वः प्राप्येते, द्वो चापर्याप्तसंज्ञिनो मनुष्यस्येति । तथा प्रत्येकं सप्तानामपर्याप्तानां पञ्च पञ्च सत्तास्थानानि, तद्यथाद्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । एतेषां च स्वरूपं प्रागिव द्रष्टव्यम् ।
"पण चउ पणगं" ति "सुहुमा" इति सम्बध्यते । सूक्ष्मम्य पर्याप्तस्य पञ्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशत् । एतानि च तियंग-मनुष्य
१ सं० १ त० म० छा० ०ध्यगतिप्रा० ।। २ मुद्रि० छा० ८प्ये पैव चैक० ॥ ३ छा० मुद्रि० ०ति कृत्वक ए० ॥