________________
२३०
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः
भावे भङ्गाद्वात्रिंशत् । सासादनभावा भावे द्वाविंशतिबन्धे असूनि त्रीण्युदयस्थानानि तद्यथा, अष्टौ नव दश च । एतानि च प्रागिव भावनीयानि चूर्णिकारस्त्वसंज्ञिन्यपि लब्धिपर्याप्त के त्रीन् वेदान् यथायोगमुदयप्राप्तानिच्छति, ततस्तन्मतेन तस्य द्वाविंशतिबन्धे एकविंशतिबन्धे च प्रत्येकमेकैकस्मिन् सप्तादाबुदयस्थाने त्रिभिर्वेदेश्वतुर्विंशतिभङ्गा अवसेयाः । 'एकस्मिन् ' पर्याप्त - संज्ञिरूपे जीवस्थाने नवोदयस्थानानि तानि च प्रागिव सप्रभेदानि वक्तव्यानि ।
" तिग तिग पन्नरस संतम्मि" 'अष्टसु' पूर्वोक्तरूपेषु जीवस्थानेषु त्रीणि त्रीणि सत्तास्थानानि तद्यथा - अष्टाविंशतिः सप्तविंशतिः पविशतिश्च । 'पञ्चस्वपि च ' उक्तरूपेषु जीवस्थानेषु तान्येव त्रीणि त्रीणि सत्तास्थानानि । 'एकस्मिन् ' पर्याप्तसंज्ञनि पञ्चेन्द्रियरूपे जीवस्थाने पुनः पञ्चदश सत्तास्थानानि तानि च प्रागिव सप्रभेदानि वक्तव्यानि ।
सम्प्रति संवेध उच्यते - तत्राष्टसु जीवस्थानेषु द्वाविंशतिबन्धस्थानम् त्रीण्युदयस्थानानि, यथा - अष्टौ नव दश च । एकैकस्मिन्नुदयस्थाने त्रीणि त्रीणि सत्तास्थानानि तद्यथा - अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्च । सर्वसङ्ख्यया नव सत्तास्थानानि । पञ्चसूक्तरूपेषु जीवस्थानेषु स्थाने, तद्यथा - द्वाविंशतिः एकविंशतिश्च । तत्र द्वाविंशतिबन्धे प्रागुक्तान्येव श्रीण्युदयस्थानानि, एकैकस्मिंश्च उदयस्थाने तान्येव पूर्वोक्तानि त्रीणि त्रीणि सत्तास्थानानि । एकविंशतिबन्धेनि त्रीण्युदयस्थानानि तद्यथा - सप्त अष्टौ नव । एकैकस्मिंश्व उदयस्थाने एकैकं सत्तास्थानं अष्टाविंशतिः, एकविंशतिबन्धो हि सासादनभावमुपागतेषु प्राप्यते, सासादनाश्चावश्यमष्टाविंशतिसत्कर्माणः, तेषां दर्शनत्रिकस्य नियमतो भावात् ततस्तेषु सत्तास्थानंमष्टाविंशतिरेव । तदेवमेकविंशतिबन्धे त्रीणि सत्तास्थानानि, द्वाविंशतिबन्धे च नवेति । सर्वसङ्ख्यया पश्चसु जीवस्थानेषु प्रत्येकं द्वादश द्वादश सत्तास्थानानि भवन्ति । 'एकस्मिन् ' सी संज्ञिपर्याप्ते पुनः जीवस्थाने संवेधः प्रागुक्त एव सप्रपञ्चो द्रष्टव्यः ।। ३३ ।।
सम्प्रति नामकर्म जीवस्थानेषु चिन्तयन्नाह
पण दुग पणगं पण चउ, पणगं पणगा हवंति तिन्नेव । पण छप्पणगं छच्छ प्पणगं अट्ठऽड दसगं ति ॥ ३७ ॥
सत्तेव अपज्जत्ता, सामी तह सुहुम बायरा चेव । विगलिंदिया उ तिन्नि उ, तह य असन्नी य सन्नी य ।। ३८ ।।
अनयोर्गाथयोः पदानां यथाक्रमं सम्बन्धः, तद्यथा - " पण दुग पण गं" प्रति "सामी सत्तेव अपज्जत्ता" बन्ध - उदय सत्ताप्रकृतिस्थानानां यथाक्रमं पञ्चकं पञ्चकं द्विकं च प्रति स्वामिनः
१ सं० १ ० ० ०दयस्थाने प्राप्ताः ।। २ सं० स० १ ० म० णगं" ति "सा० ॥