________________
३५-३६ ] चन्द्रर्पिमहत्तरकृतं सप्ततिका प्रकरणम्
२२९ अष्टसु पञ्चसु एकस्मिश्च यथाक्रम एकं द्वे दश च मोहनीयप्रकृतिबन्धगतानि स्थानानि भवन्ति । तत्र 'अष्टसु' पर्याप्ता-ऽपर्याप्तसूक्ष्मा-ऽपर्याप्तवादर-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञिसंज्ञिरूपेषु एकं बन्धस्थानं द्वाविंशतिरूपम् । द्वाविंशतिश्चेयम्-मिथ्यात्वं षोडश कषायाः त्रयाणां वेदानामन्यतमो वेदः हास्य-रतियुगला-ऽरति-शोकयुगलयोरन्यतरद् युगलं भयं जुगुप्सा चेति । अत्र त्रिभिर्वे देवाभ्यां युगलाभ्यां पड् भङ्गा भवन्ति । पर्याप्तवाद र द्वि-त्रि-चतुरिन्द्रियाऽसंज्ञिरूपेषु पञ्चसु जीवस्थानेषु इमे द्वे द्वे वन्धस्थाने, तद्यथा-द्वाविंशतिरेकविंशतिश्च । तत्र द्वाविंशतिः प्रागिव सभेदा वक्तव्या। सैव च द्वाविंशतिर्मिथ्यात्वहीना एकविंशतिः । सा च केपाञ्चित् करणापर्याप्तावस्थायां सासादनभावे सति लभ्यते न सर्वेषाम् , शेषकालं वा । अत्र चत्वारो भङ्गाः, यत इह नपुसकवेदो न बन्धमायाति, मिथ्यात्वोदयाभावात् , नपुंसकवेदबन्धस्य च मिथ्यात्वोदयनिबन्धनत्वात् । ततो द्वाभ्यां वेदाभ्यां द्वाभ्यां च युगलाभ्यां चत्वार एव भङ्गाः। एकस्मिस्तु पर्याप्तसंज्ञिरूपे जीवस्थाने द्वाविंशत्यादीनि दश बन्धस्थानानि, तानि च प्राग्वद् सभेदानि वक्तव्यानि ।
___ "तिग चउ नव उदयगए" इति, यथोक्तरूपेषु अष्टसु जीवस्थानेषु प्रत्येकं त्रीणि त्रीण्युदयस्थानानि, तद्यथा-अष्टौ नव दश च । यत्तु सप्तकमुदयस्थानमनन्तानुबन्ध्युदयरहितं तन्न प्राप्यते, तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात । वेदश्च तेषामुदयप्राप्तो नपुंसकवेद एव, न स्त्रीवेद-पुरुषवेदो । ततः 'अष्टोदये मिथ्यात्वं क्रोधादीनामन्यतमे चत्वारः क्रोधादिका नपुसकवेदोऽन्यतरद् युगलमित्येवंरूपे चतुर्भिः क्रोधादिभिभ्यां च युगलाभ्यां भङ्गा अष्टौ । अष्टोदये एव भये वा जुगुप्सायां वा प्रक्षिप्तायां नवोदयः, अत्रैकैकस्मिन् विकल्पे भङ्गा अष्टौ अष्टौ प्राप्यन्ते इति सर्वसङ्ख्यया नवोदये भङ्गाः षोडश । भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोदेशोदयः. अत्र भङ्गा अष्टौ । सर्वसङ्ख्यया अष्टसु जीवस्थानेषु प्रत्येकं द्वात्रिंशद् द्वात्रिंशद् भङ्गाः । तथा उक्तरूपेषु पञ्चसु जीवस्थानेषु प्रत्येकं चत्वारि चत्वारि उदयस्थानानि, तद्यथा-सप्त अष्टौ नव दश । तत्र सासादनभावकाले एकविंशतिबन्धे सप्ताऽष्ट-नवरूपाणि त्रीण्युदयस्थानानि, वेदश्च तेपामुदयप्राप्तो नपुसकवेदः, ततोऽन्यतमे चत्वारः क्रोधादिका नपुंसकवेदोऽन्यतरद् युगलमिति सप्तोदय एकविंशतिबन्धे ध्रुवः, अत्र प्रागिवाष्टो भङ्गाः । ततो भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टोदयः, अत्र प्रत्येकं भये जुगुप्सायां चाष्टौ भङ्गाः प्राप्यन्ते इत्यष्टोदये सर्वसङ्ख्यया भङ्गाः पोडश । ततो भय-जुगुप्सयोयुगपत् प्रक्षिप्तयोर्नवोदयः, अत्राष्टावेव भङ्गाः । सर्वसङ्ख्यया सासादन
१ सं० १ त म० °दरपर्याप्तद्वि ॥ २-३ मुद्रि० छा० सप्रमे || ४ अस्मत्पार्श्ववर्तिषु केषुचि दादर्शषु "त्रीणि त्रीणि" इति वारद्वयं लिखितं नोपलभ्यते केषुचित् पुनर्लभ्यते । एवमग्रेऽपि "त्रीणि त्रीणि, चत्वारि चत्वारि, द्वादश द्वादश, द्वात्रिंशद् द्वात्रिंशद्' इत्यादिष्वपि ज्ञेयम् ॥