________________
२२८ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा रिकायुश्च भवप्रत्ययादेव न बध्नन्ति, तत्रोत्पत्त्यभावात् , ततो नारकाणां परभवायुर्वन्धकाले बन्धोत्तरकाले च देवायुारकायुभ्यां विकल्पाभावात् सर्वसङ्ख्यया पञ्च विकल्पाः । एवं देवानामपि पञ्च विकल्पा भावनीयाः, नवरं नारकायुःस्थाने देवायुरिति वक्तव्यम् , तद्यथा-देवायुष उदयः देवायुषः सत्ता इत्यादि । तथा तिर्यगायुष उदयः तिर्यगायुषः सत्ता, अयं विकल्प: परभवायुर्वन्धकालात् पूर्वम् । परभवायुचेन्धकाले तु नरकायुषो बन्धः तिर्यगायुष उदयः नरकतिर्यगायुपी सती, अथवा तिर्यगायुषो बन्धः तिर्यगायुष उदयः तिर्यक्-तिर्यगायुषी सती, अथवा मनुष्यायुषो बन्धः तिर्यगायुप उदयः मनुष्य-तिर्यगायुषी सती, अथवा देवायुपो बन्धः तिर्यगायुष उदयः देव-तिर्यगायुपी सती । परभवायुर्वन्धोत्तर'कालं तिर्यगायुष उदयो नरकतिर्यगायुपी सती, अथवा तिर्यगायुष उदयः तिर्यक्-तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो मनुष्य तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो देव-तिर्यगायुषी सती । सर्वसङ्ख्यया संज्ञिपर्याप्ततिरश्चां नव विकल्पाः । एवं मनुष्याणामपि नव भङ्गा भावनीयाः, केवलं तिर्यगायुःस्थाने मनुष्यायुरित्यभिधातव्यम् , तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्यादि । तदेवं सर्वसङ्ख्यया संज्ञिनि पर्याप्तेऽष्टाविंशतिर्भङ्गाः। अपर्याप्ते संज्ञिनि आयुषो दश भङ्गा इमेतिर्यगायुषः उदयः तिर्यगायुषः सत्ता, अयं विकल्पः परभवायुर्वन्धकालात् पूर्वम् । परभवायुर्वन्धकाले तिर्यगायुपो बन्धः तिर्यगायुष उदयः तिर्यक् तिर्यगायुषोः सत्ता, अथवा मनुष्यायुपो बन्धः तिर्यगायुप उदयो मनुष्य-तिर्यगायुषी सती । परभवायुर्वन्धोत्तरकालं तिर्यगायुष उदयः तिर्यक् तिर्यगायुपी सती, अथवा तिर्यगायुष उदयो मनुष्य-तिर्यगायुषी सती । एवं तिरश्चोऽ. पर्याप्तसंज्ञिनः पञ्च भङ्गाः । एवं मनुष्यस्यापि पञ्च वक्तव्याः । सर्वसङ्ख्यया दश । शेपा न सम्भवन्ति, अपर्याप्तो हि संज्ञी तिर्यङ् मनुष्यो वा, न देव-नारको, न चापि स देवायु रकायुर्वा बध्नाति, ततो दशैव यथोक्ता भङ्गाः । तथा ये प्राक् संज्ञितिरश्चां नव भङ्गा उक्तास्त एवासंज्ञिपर्याप्तेऽपि नव भङ्गा वक्तव्याः, यतोऽसंज्ञी पर्याप्तस्तियगेव भवति न मनुष्यादिः, ततोऽत्र तदाश्रिता भङ्गा न प्राप्यन्ते । तथा येऽपर्याप्तसंज्ञितिरश्चः पञ्च भङ्गाः प्रागुक्तास्त एव पञ्च भङ्गाः शेषेष्वप्येकादशसु जीवस्थानेषु वक्तव्याः, सर्वेषामपि तिर्यक्त्वाद् देवादिषूत्पादाभावाच्च ।
मोहं परं वोच्छं ।। ३५ ।। अत परं 'मोह. मोहनीयं जीवस्थानेषु वक्ष्ये ।।३५||
अट्टसु पंचसु एगे एग दुगं दस य मोहबंधगए ।
तिग चउ नव उदयगए, तिग तिग पन्नरस संतम्मि ।। ३६ ॥ १ सं० ०काले तिर्य० ॥२ सं० १ त० म० व्यबध्ना०॥ ३ छा० ०श्चां प० ॥ ४ सं० सं० १ त० म० ०३ भङ्गाः ॥ ५ गाथेयं सप्ततिकाभाष्ये ५५ तमी।।