________________
३४-३५ ]
चन्द्रपिमहत्तरकृतं सप्ततिकाप्रकरणम् । ... "सत्तग तिगं च गोए" इति 'गोत्रे' गोत्रस्य संजिनि पर्याप्ते सप्त भङ्गाः, तद्यथा-नीचेगोत्रस्य बन्धः नीचैगोत्रस्योदयः नीचैगोत्रं सत् , एष विकल्पम्तेजः-बायुभवाद् उद्धृत्य तिर्यक्प
वेन्द्रियसंज्ञित्वेनो'त्पन्ने कियत्कालं प्राप्यते। नीचेगोत्रस्य बन्धः नीचे गोत्रस्योदय उच्च नीचैगोत्रे सती, अथवा नीचैर्गोत्रस्य बन्धः उच्चैर्गोत्रस्योदय उच्च-नीचेगोत्रे सती, एतौ च विकल्पोपर्याप्त संज्ञिनि मिथ्यादृष्टो सासादने वा प्राप्यते न सम्यग्मिथ्यादृष्ट्यादौ, तस्य नीचेोत्रबन्धाभावात् । तथा उच्चैगोत्रस्य बन्धः नीचेगोत्रस्योदय उच्च-नीचेगोत्रे सती, एप विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य देशविरतिगुणस्थानकं यावत् प्राप्यते न परतः, परतो नीचेगोत्रम्योदयाभावात् । तथा उच्चगोत्रस्य बन्धः उच्चैर्गोत्रस्योदय उच्च-नीचे गोत्रे सती, एप विकल्पः सूक्ष्मसम्परायगुणस्थानकं यावदवसेयः । परतो बन्धाभावे उच्चैर्गोत्रस्योदय उच्च-नीचेगोत्रे सती, एप विकल्प उपशान्तमोहगुणस्थानकादारभ्य अयोगिक वलिनि द्विचरमसमयं यावदवाप्यते । उच्चोंत्रस्योदय उच्चेोत्रं सत् , एष विकल्पोऽयोगिकंवलिचरमसमये । 'इतरेपु पुनः' पर्याप्तसंज्ञिव्यतिरिक्तेषु त्रयोदशसु जीवस्थानेषु प्रत्येकं त्रयस्त्रयो भङ्गाः, तद्यथा-नीचेगोत्रस्य बन्धः नीचे गोत्रस्योदयः नीचैर्वोत्रं सत् , अयं विकल्पस्तेजः-वायुषु उच्चै गोत्रोद्वलनानन्तरं सर्वकालं तेजः-वायुभवाद् उद्धृत्य समुत्पन्नेषु वा पृथिव्यादि-द्वीन्द्रियादिपु कियत्कालं प्राप्यते, नान्येषु । नीचेगोत्रस्य बन्धः नीचेोत्रस्योदय उच्च-नीचैर्गोत्रे सती, तथा उच्चैगोत्रस्य बन्धो नीचैगोत्रस्योदय उच्च-नीचेगोत्रे सती । शेषा विकल्पा न सम्भवन्तिं, तिर्यतूच्चेत्रिस्योदयाभावात् ।। सम्प्रत्यायुषो भङ्गा निरूप्यन्ते, तन्निरूपणार्थ चेयमन्तर्भाष्यगाथा
पज्जत्तापज्जत्तग, समणे पज्जत्त अमण सेसेसु ।
अट्ठावीसं दसगं, नवगं पणगं, च आउस्स ।।२।। समनाः-संज्ञी, तत्र पर्याप्ते संज्ञिनि आयुषो भङ्गा अष्टाविंशतिः, अपर्याप्त संज्ञिनि भङ्गानां दशकम् , पर्याप्ते 'अमनसि' असंज्ञिनि पञ्चेन्द्रिये भङ्गानां नवकम् , 'शेपेषु' एकादशसु जीवस्थानेषु पुनर्भङ्गानां प्रत्येकं पञ्चकमिति । तत्र संज्ञिनि पर्याप्ते इमे अष्टाविंशतिर्भङ्गाःनैरयिकस्य नरकायुप उदयो नरकायुः सत् , अयं परभवायुर्वन्धकालात पूर्वम् , परभवायुबन्धकाले तिर्यगायुपो बन्धः नरकायुष उदयः नरक-तिर्यगायुपी सती, अथवा मनुष्यायुषो बन्धः नरकायुप उदयः नरक-मनुष्यायुषी सती । परभवायुबन्धोत्तरकालं नरकायुप उदयः नरक तिर्यगायुषी सती, अथवा नरकायुप उदयः मनुष्य-नारकायुपी सती । इह नारका देवायु
१ सं० १ त० म० ०त्पन्नेषु कि० ॥ २ सं० १ त० म० ८त् । उच्चै०॥ ३ सं० २ मुद्रि० ०वलिद्वि०॥ ४ छा० मुद्रि००षु । तथा नीचै० ।। ५ छा० मुद्रि० ०ष्य-न० ।।