________________
२२६ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः सम्प्रति दर्शनावरणं जीवस्थानेषु चिन्तयति
तेरे नव चउ पणगं, नव संतेगम्मि भंगमेकारा । पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु नवविधो बन्धः चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्ता इत्येतौ द्वौ विकल्पो । “एगम्मि भंगमेक्कार" ति 'एकस्मिन्' पर्याप्तसंज्ञिपञ्चेन्द्रियरूपे एकादश भङ्गाः, ते च यथा प्राक् सामान्येन संवेधचिन्तायामुक्तास्तथैवात्राप्यन्यूनातिरिक्ता वक्तव्याः ।
वेयणियाउयगोए, विभन्ज वेदनीये आयुषि गोत्रे च यानि बन्धादिप्रकृतिस्थानानि तानि यथागमं जीवस्थानेषु 'विभजेत्' विकल्पयेत् । तत्रेयं वेदनीय-गोत्रयोर्विकल्पनिरूपणार्थमन्तर्भाष्यगाथा
पज्जत्तगसन्नियरे, अट्ठ चउक्कं च वेयणियभंगा ।
सत्तग तिगं च गोए', पत्तेयं जीवठाणेसु ।। १ ।। पर्याप्ते संज्ञिनि वेदनीयस्याष्टौ भङ्गाः, तद्यथा-असातस्य बन्धः असातस्योदयः सातासाते सती, अथवा असातस्य बन्धः सातस्योदयः सातासाते सती, एतौ द्वौ विकल्पो मिथ्यादृष्टिगुणस्थान काद् आरभ्य प्रमत्तगुणस्थानकं यावत् प्राप्यते न परतः, परतोऽसातस्य वन्धाभावात् । तथा सातस्य बन्धः अमातस्योदयः सातासाते सती, अथवा सातस्य बन्धः सातस्योदयः सातासाते सती, एतो च द्वो विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानकं यावत् प्राप्यते । ततः परतो बन्धाभावे असातस्योदयः सातासाते सती, अथवा सातस्योदयः सातासाते सती, एतो द्वौ विकल्पावयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्यते । चरमसमये तु, 'असातस्योदयः असातस्य सत्ता' यस्य द्विचरमसमये सातं क्षीणं, यस्य त्वसातं द्विचरमसमये क्षीणं तस्य सातस्योदयः सातस्य सत्तेति सर्वसङ्ख्ययाऽष्टौ भङ्गाः । इह सयोगिकेवली अयोगिकेवली च द्रव्यमनोऽभिसम्बन्धात् संज्ञी व्यवहियते, ततः संज्ञिनि पर्याप्ते वेदनीयस्याष्टो भङ्गा उच्यमाना न विरुध्यन्ते । 'इतरेषु' पयोप्तसंज्ञिव्यतिरिक्तेषु त्रयोदशसु जीवस्थानेषु प्रत्येकं प्रत्येकं चत्वारो भङ्गा भवन्ति, तबथा-असातस्य बन्धः असातस्योदयः सातासाते सती, अथवा असातस्य बन्धः सातस्योदयः सातासाते सती', अथवा सातस्य बन्धः असातस्योदयः सातासाते सती,' अथवा सातस्य बन्धः सातस्योदयः सातासाते सती ।।
१ सं० १ सं० २ मुद्रि० ०ए वत्तव्या जीवठाणेसु ॥ २ मुद्रि० कात् प्रभृति प्र० ॥ ३ सं० सं० २ ०त्येकं चत्वा० ॥ ४-५ सं० १ त० म००ती, तथा सा०॥