________________
.०२५
३२-३४ ]
चन्द्रर्षिमहत्तरकृतं सप्रतिकाप्रकरणम् । तिविगप्पपगइठाणेहिं जीवगुणसन्निएसु ठाणेसु । भंगा पउंजियव्वा, जत्थ जहा संभवो भव ॥ ३३ ॥
त्रयो विकल्पाः-बन्ध-उदय-सत्तारूपास्तेषां सम्बन्धीनि प्रकृतिस्थानानि त्रिविकल्पप्रकृतिस्थानानि तैः जीवसंज्ञितेषु गुणसंज्ञितेषु च स्थानेषु जीवस्थानेषु गुणस्थानेषु चेत्यर्थः, भङ्गाः पूर्वोक्तानुसारेण वक्ष्यमाणानुसारेण च प्रयोक्तव्याः । कथम् ? इत्याह-"जत्थ जहा संभवो हवइ" यत्र येषु जीवस्थानेषु गुणस्थानेषु च 'यथा सम्भवो भवति' यथा घटना भवति तत्र तथा प्रयोक्तव्याः, यो यत्र यथा भङ्गो घटते स तत्र तथा' वक्तव्य इत्यर्थः ।। ३३ ॥
तत्र प्रथमतो जीवस्थानान्यधिकृत्य प्रतिपादयति
तेरससु जीवसंखेवएस नाणंतराय तिविगपणे।
एक्कम्मि तिदुविगप्पो, करणं पड़ एत्थ अविगप्पो ॥ ३४ ॥ समिप्यन्ते-सड़गृह्यन्ते जीवा एभिरिति सक्षेपाः-अपर्याप्त कैकेन्द्रियत्वादयोऽवान्तरजातिभेदाः, जीवानां सक्षेपा जीवसङ्क्षपा जीवस्थानानीत्यर्थः । पर्याप्तसंज्ञिपञ्चेन्द्रियवर शेपेषुत्रयोदशसु जीवस्थानेषु ज्ञानावरणा-ऽन्तराययोर्वन्ध-उदय-सत्तारूपास्त्रयो विकल्पाः प्राप्यन्ते, तद्यथा-पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता, ज्ञानावरणा-ऽन्तराययोध्रुवबन्धोदयसत्ताकत्वात् । सूत्रे
"तिविगप्पो' इति द्विगुसमाहारत्वेऽप्यार्पत्वात् पुस्त्वनिर्देशः । “एक्कम्मि तिदुविगप्पो' 'एकम्मिन' पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणे जीवस्थाने त्रयो वा विकल्पा भवन्ति, हो वा विकल्पो । तत्र त्रयो विकल्पा इमे-पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता । एते च सूक्ष्मसम्परायगुणस्थानकं यावत् प्राप्यन्ते । ततः परं बन्धव्यवच्छेदे उपशान्तमोहे क्षीणमोहे च द्वो विकल्पो, तद्यथा-पञ्चविध उदयः पञ्चविधा सत्ता । अत्रान्यो भङ्गो न सम्भवति, उदय-सत्तयोयुगपद् व्यवच्छेदात् "करणं पड़ एत्थ अविगप्पो" त्ति इह केवलिनो मनोविज्ञानमधिकृत्य संज्ञिनो न भवन्ति, द्रव्यमनःसम्बन्धात् पुनस्तेऽपि संज्ञिनो व्यवहियन्ते । उक्तं च चूर्णी
'मणकरणं केवलिणो वि अत्थि तेण सन्निणो वुच्चंति ।
मणोविण्णाणं पडुच्च ते सन्निणो न हवंति । इति । ततः करणं-द्रव्यमनोरूपं प्रतीत्य यः संज्ञी सयोगिकेवली अयोगिकंवली वा भवस्थस्तस्मिन् 'अत्र' ज्ञानावरणेऽन्तराये च 'अविकल्प:' त्रयाणामपि बन्धादिरूपाणां विकल्पानामभावः, आमूलं तदुच्छेदे सति केवलित्वभावात् ।। ३४ ।।
१ छा० ०था कर्तव्यः ॥२मनःकरणं केवलिनोऽपि अस्ति तेन संज्ञिन उच्यन्त । मनोविज्ञ नं प्रतीत्य ते संज्ञिनो न भवन्ति। 29