________________
२२४
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[गाथाः
विंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशद् नव अष्टौ च । तत्र विंशती एकविंशति यथासङ्ख्यमतीर्थकर तीर्थकरयोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः, पविशति-सप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः । अतीर्थकरस्य स्वभावस्थस्य त्रिंशत्, तस्यैव स्वरे निरुद्वे एकोनत्रिंशत्, उच्छ्वासेऽपि निरुद्धेऽष्टाविंशतिः, तीर्थकरस्य स्वभावस्थस्य एकत्रिंशत्, तस्यैव स्वरे निरुद्धे त्रिंशत्, उच्छ्वासेऽपि निरुद्वे एकोनत्रिंशत् एवं च द्विधा त्रिंशद् - एकोन - त्रिंशतौ प्राप्येते । अयोगिनस्तीर्थकरस्य चरमसमये वर्तमानस्य नवोदयः, अतीर्थकरस्यायोगिनोऽष्टोदयः । दश सत्तास्थानानि, तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः पद्मप्ततिः पञ्चसप्ततिः नव अष्टौ च । तत्र विंशत्युदये द्वे सत्तास्थाने - एकोनाशीतिः पञ्चसप्तति । एवं पविशत्युदयेऽष्टाविशत्युदयेऽपि द्रष्टव्यम् | एकविं शत्युदये इमे द्वे सत्तास्थाने, तद्यथा - अशीतिः षट्सप्ततिश्च । एवं सप्तविंशत्युदयेऽपि । एकोनत्रिंशति चत्वारि सत्तास्थानानि तद्यथा - अशीतिः षट्सप्ततिः एकोनाशीतिः पञ्चसप्ततिश्च । यत . एकोनत्रिंशत् तीर्थकरस्यातीर्थकरस्य च भवति, तत्राद्ये द्वे तीर्थकरमधिकृत्य वेदितव्ये, 1. अन्तिमे अतीर्थकरमधिकृत्य । त्रिंशदुदयेऽष्टौ सत्तास्थानानि तद्यथा — त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वायु - पशान्तकषायस्य' । अशीतिः क्षीणकपायस्य सयोगिकेवलिनो वा आहारकसत्कर्मणः तीर्थकरस्य तस्यैवातीर्थकरस्यैकोनाशीतिः । आहारकचतुष्टयरहितस्य तीर्थकरस्य क्षीणकपायस्य सयोगिकेवलिनो वा षट्सप्ततिः । तस्यैवातीर्थकरस्य पञ्चसप्ततिः । एकत्रिंशदुदये द्वे सत्तास्थाने, तद्यथाअशीतिः पद्मप्ततिश्च । एते च तीर्थकर केवलिनो वेदितव्ये, अतीर्थंकरकेवलिन एकत्रिंशदुदयस्यैवाभावात् । नवोदये त्रीणि सत्तास्थानानि तद्यथा - अशीतिः पट्सप्ततिः नव च । तत्राद्ये द्वे यावद् द्विचरमसमयः तावदयोगिकेवलिनस्तीर्थ करस्य वेदितव्ये, चरमसमये तु नव । अष्टोदये त्रीणि सत्तास्थानानि तद्यथा - एकोनाशीतिः पञ्चसप्ततिः अष्टौ च । तत्राद्ये द्वे अयोगकेवलिनोऽतीर्थकरस्य द्विचरमसमयं यावद् वेदितव्ये, चरमसमये त्वष्टाविति । एवमबन्धकस्य दशाप्युदयस्थानानि अधिकृत्य त्रिंशत् सत्तास्थानानि भवन्ति ।। ३२ ।।
1
तदेवमुक्ता' नामप्रकृतीनां बन्धोदयसत्तास्थानभेदाः संवेधश्च । सम्प्रत्युक्तक्रमेणैव पां जीवस्थानानि गुणस्थानानि चाधिकृत्य स्वामी 'निदश्यते-
१ सं० छा० मुद्रि० शत्, तम्यैवोच्छ्वा० ॥ २ त० म० मुद्रि० ०स्य । अशीतिः क्षीणकपायस्य चयावत् त्रयोदशकं न क्षीयते । अन्त्यानि चत्वारि क्षीण त्रयोदशकस्य सयो । ३ सं० सं० १ सं २ क्ताः प्रकृ" । मुद्रि० छा० वक्ता उत्तरप्रकृ० ॥ ४ सं १ त० म० ०मी निर्दिश्यते ॥