________________
२२३
३१-३२]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ॥ तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यांबध्नतामेकेन्द्रियादीनामुदय-सत्तास्थानानि भावनीयानि । मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बध्नेता देव नैरयिकाणामुदय-सत्तास्थानान्युच्यन्ते, तत्र देवस्य यथोक्तां त्रिंशतं बध्नत एकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने-- त्रिनवतिरेकोननवतिश्च । एकविंशत्युदये वर्तमानस्य नैरयिकस्येकं सत्तास्थानं एकोननवतिः । विनवतिरूपं तु तस्य सत्तास्थानं न भवति, तीर्थकरा-ऽऽहारकसत्कर्मणो नरकेषत्पादाभावात् ।
उक्तं च चूर्णी'जस्स तित्थगराऽऽहारगाणि जुगवं संति सो नेरइएसु न उववज्जइ । इति ।
एवं पञ्चविंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत-त्रिंशददयेष्वपि भावनीयम् । नवरं नरयिकस्य त्रिंशदुदयो न विद्यते, त्रिंशदुदयो हि उद्योते सति प्राप्यते, न च नेरयिकस्योद्योतोदयो भवति । तदेवं सामान्येन त्रिंशद्वन्धकानामेकविंशत्युदये सप्त, चतुर्विंशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विश/दये पञ्च, सप्तविंशत्युदये पट अष्टाविंशत्युदये पट् , एकोनत्रिंशदुदये पट, त्रिंशदुदयो षट् , एकत्रिंशदुदये चत्वारि, सर्वसङ्खथया द्विपञ्चाशत् ५२ ॥ ३१ ।।
एगेगमेगतीस" त्ति एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशत् , यत एकत्रिंशद् देवगतिप्रायोग्यं तीर्थकरा-ऽऽहारकसहितं बनतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थानं त्रिनवतिः, तीर्थकरा-ऽऽहारकचतुष्टययोरपि सत्तासम्भवात् ।।
“एगे एगुदय अट्ठ संतम्मि'' 'एकस्मिन् यशःकीर्तिरूपे कर्मणि बध्यमाने एकमुदयस्थानं त्रिंशत् , एकां हि यशःकीर्ति बध्नन्ति अपूर्वकरणादयः, ते चातिविशुद्धत्वाद् वैक्रियमाहारकं वा नारभन्ते, ततः पञ्चविंशत्यादीन्युदयस्थानानीहापि न प्राप्यन्ते । अष्टो सत्तायां स्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः पट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यास् अथवा क्षपकश्रेण्यां यावदनिवृत्ति बादरगुणस्थाने गत्वा त्रयोदश नामानि न क्षप्यन्ते । त्रयोदशसु च नामसु क्षीणेसु नानाजीवापेक्षयोपरितनानि चत्वारि लभ्यन्ते, तानि च तावद् लभ्यन्ते यावत् सूक्ष्मसम्परायगुणस्थानम् !
"उबरयबंधे दस दस वेयग संतम्मि ठाणाणि" उपरते बन्धे बन्धाभावे इत्यर्थः, "वेयग" त्ति वेदनं वेदो वेद एव वेदकस्तस्मिन् उदगे इत्यर्थः सत्तायां च प्रत्योकं दश दश स्थानानि । तत्रामूनि दश उदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः पड्विशतिः सप्तविंशतिः अष्टा
१ यस्य तीर्थक्रा ऽऽहारके युगपत् स्तः स नैरयिक पु नोपपद्यते ।। २ सं० १ त० म० ०सहितं कर्म ब० ॥३ सं१ त० छा० म० त्तास्था० ।।