________________
३२२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा
स्थानानि तद्यथा - पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । असंयतानां संयतासंयतानांच वैक्रियं कुर्वतां मनुष्याणां त्रिंशद्वर्जानि चत्वायु दयस्थानानि । त्रिंशत् कस्मान्न भवति ? इति चेदुच्यते - संयतान् मुक्त्वाऽन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्योतोदयाभावात् । सामान्येनैकोनत्रिंशद्धन्धे सप्त सत्तास्थानानि, तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । तत्र विकलेन्द्रिय तिर्यक् पञ्चेन्द्रियप्रायोग्य मे कोनत्रिंशतं बध्नतां पर्याप्ता-ऽपर्याप्त केन्द्रिय-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियाणामेकविंशत्युदये वर्तमानानां पञ्च सत्तास्थानानि तद्यथा-1 - द्विनवतिः अष्टाशीतिः पडशीतिः अशीतिः अष्टसप्ततिश्च । एवं चतुर्विंशति-पञ्चविंशतिः- पविशत्युदयेष्वपि वक्तव्यम् । सप्तविंशति- अष्टाविंशति- एकोनत्रिंशत्त्रिंशद् - एकत्रिंशदुदयेष्वष्टसप्ततिव जनि चत्वारि चत्वारि सत्तास्थानानि, भावना यथा त्रयोविंशतिबन्धकानां प्राग् उक्ता तथाऽत्रापि कर्तव्या । मनुजगतिप्रायोग्यामेकोनत्रिंशतं बघ्नता मेकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियाणां तिर्यग्गति- मनुष्यगतिप्रायोग्यां पुनर्वघ्नतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्णानि तान्येव चत्वारि सत्तास्थानानि वेदतव्यानि | देव-नैरयिकाणां तिर्यक्पञ्चेन्द्रिय मनुष्यगतिप्रायोग्य मेकोनत्रिंशतं वध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने, तद्यथा - द्विनवतिरष्टाशीतिश्च केवलं नैरयिकस्य मिथ्याढादेस्तीर्थकर सत्कर्मणो मनुष्यगतिप्रायोग्यासेकोनत्रिंशतं बघ्नतः स्वोदयेषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या, यतस्तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मिथ्यात्वगमनसम्भवः, " " उभसंतिओ न मिच्छो" इति वचनात् ; ततस्त्रिनय तेराहारकचतुष्केपदते सत्कोननवतिरेव तस्य सत्तायां भवति । देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां वनतः पुनरविरतसम्यग्दृष्टेर्मनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने, तद्यथात्रिनवतिरेकोननवतिश्च । एवं पञ्चविंशति-पविशति सप्तविंशति- अष्टाविंशति- एकोनत्रिंशत्-त्रिशत्रुदयेष्वपि ते एव द्वे द्वे सत्तास्थाने वक्तव्ये । आहारकसंयतानां पुनः स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानमवगन्तव्यम् । तदेवं सामान्येनैकोनत्रिंशद्वन्धे एकविंशत्युदये सप्त सत्तास्थानानि, चतुर्विंशत्युदये पञ्च पञ्चविंशत्युदये सप्त पविशत्युदये सप्त सप्तविंशत्युदये पद्, अष्टाविंशत्युदये षट्, एकोनत्रिंशदुदये षद्, त्रिंशदुदये षट्, एकत्रिंशदुदये चत्वारि, सर्वसङ्खध्या चतुःपञ्चाशद् सत्तास्थानानि ५४ । तथा यथा तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नतामेकेन्द्रिय-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-मनुज देव नैरयिकाणामुदय-सत्तास्थानानि भावितानि
१ मुद्रि० छा० ० नान्यमूनि त० ॥२ सं० सं० १ ० म० ०र्जानि चत्वारि सत्ता० ॥३ सं० १ ० ०त्वारि चत्वारि सत्ता० ॥ ४ उभयसत्ताको न मिध्यादृष्टिः ॥
सं०