________________
३१-३२]
चन्द्रमित्तकृतं सप्ततिक प्रकरणम्
एकोननवतिः पुनरेवम्-कश्चिद् मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः पूर्ववद्धनरकायुष्को नरकाभिमुखः सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतः, तस्य तदा तीर्थकर नामबन्धाभावाद् नरकगतिप्रायोग्यामष्टाविंशतिं बघ्नतः एकोननवतिः सत्तायां प्राप्यते । पडशीतिस्त्वेवम्-इह तीर्थकराssहारकचतुष्क- देवगति-देवानुपूर्वी नरकगति-नरकानुपूर्वी वैक्रियचतुष्टयरहिता त्रिनवतिरशीतिभवति, ततस्तत्कर्मा पञ्चेन्द्रियतिर्यङ् मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धः ततो देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तद्वन्ये च देवद्विकं वैक्रियचतुष्टयं च सत्तायां प्राप्यते इति तस्य पडशीतिः । अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशति बध्नाति, तद्रन्धे च नरकद्विकं वैक्रियचतुष्टयं चावश्यं वध्यमानत्वात् सत्तायां प्राप्यते इत्येवमपि तस्य षडशीतिः । एकत्रिंशदुदये त्रीणि सत्तास्थानानि, तद्यथा - द्विनवतिरष्टाशीतिः षडशीतिश्च । एकोननवतिरिह न प्राप्यते, एकत्रिंशदुदयो हि तिर्यक्पञ्चेन्द्रियेषु प्राप्यते, न च तिर्यक्ष तीर्थकरनाम सद् भवति, तीर्थकरनामसत्कर्मणः तिर्यक्षत्पादाभावात् । षडशीतिसत्तास्थानभावना च प्रागिव वेदितव्या । तदेवमष्टाविंशतिबन्धकानामष्टावप्युदयस्थानान्यधिकृत्यैकोनविंशतिसङ्ख्यानि सत्तास्थानानि भवन्ति ।
२२१
"नव सत्तुगतीस तीसम्मि" एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येकं नव नवोदयस्थानानि सप्त सप्त सत्तास्थानानि । तत्रोदयस्थानान्यमूनि तद्यथा एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रैकविंशत्युदयस्तिर्यङ्-मनुष्यप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्ताऽपर्याप्त केन्द्रिय-विकलेन्द्रिय-तिर्यङ्मनुष्याणां देव नैरयिकाणां च ' । चतुर्विंशत्युदयः पर्याप्ताऽपर्याप्त केन्द्रियाणाम् । पञ्चविंशत्युदयः पर्याप्त केन्द्रियाणां देव नैरयिकाणां वैक्रियतिर्यङ्-मनुष्याणां च मिथ्यादृष्टीनाम् पविशत्युदयः पर्याप्तैकेन्द्रियाणां पर्याप्ता-पर्याप्त विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणां । सप्तविंशत्युदयः पर्या
केन्द्रियाणां देव-नैरयिकाणां वैक्रियतिर्यङ्-मनुष्याणां च मिथ्यादृष्टीनाम् | अष्टः विंशत्युदय एकोनत्रिंशदुदयश्च विकलेन्द्रियं तिर्यक्पञ्चेन्द्रिय-मनुष्याणां वैक्रियतिर्यङ्-मनुष्य-देव-नैरयिकाणां च। त्रिंशदुदय विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-मनुष्याणां देवानां च उद्योतवेदकानाम् | एकत्रिशदुदयः पर्याप्तविकलेन्द्रिय तिर्यक्पञ्चेन्द्रियाणां उद्योतवेदकानाम् । तथा देवगतिप्रा योग्यामेकोनत्रिंशतं बनतो मनुष्यस्यापिरतसम्यग्दृष्टेरुदयस्थानानि पञ्च तद्यथा - एकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । आहारकसंयतानां वैक्रियसंयतानां च इमानि पञ्च उदय
१ सं० सं० १ ० म० ०पु भवति । न ॥ २ सं० १म० न्द्रियाणां पर्याप्तापर्यातविक० | सं विकलेन्द्रियपञ्चेन्द्रियतिर्य० ॥ ३ सं० १म० चावसेयः । च० ॥ ४ त० म० व्याणां दे० ॥