________________
२२० मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा न्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु च मध्ये देवानामुत्पादाभावात् । सामान्येन पञ्चविंशतिबन्धे पविशतिबन्धे च प्रत्येकं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशञ्चत्वारिंशच सत्तास्थानानि ।
"अट्ठ चउरऽढुवीस" त्ति अष्टाविंशतो बध्यमानायामष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । इह द्विधा अष्टाविंशतिः-देवगतिप्रतिप्रायोग्या नरकगतिप्रायोग्या च । तत्र देवगतिप्रायोग्याया वन्धेऽष्टाप्युदयस्थानानि नानाजीवापेक्षया प्राप्यन्ते, नरकगतिप्रायोग्यायास्तु बन्धे द्वे, तद्यथा-त्रिंशद् एकत्रिंशत् । तत्र देवगतिप्रायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चेन्द्रियतिर्यङ्-मनुष्याणामपान्तरालगतौ वर्तमानानामवसेयः । पञ्चविंशत्युदय आहारकसंयतानां बैंक्रियतिर्यङ्-मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । पड्विशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनांवा पञ्चेन्द्रियतियङ्-मनुष्याणां शरीरस्थानाम् । सप्तविंशत्युदय आहारकसंयतानां वैक्रियतिर्यङ्-मनुष्याणांतु 'सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । अष्टाविंशति-एकोनत्रिंशदुदयावपि यथाक्रमं शरीरपर्याप्त्या प्राणापानपर्याप्त्या च पर्याप्तानां तिर्यङ्मनुष्याणां क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथा आहारकसंय तानां वैक्रियसंयतानां वैक्रियतिर्यड-मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ। त्रिंशदुदयस्तिर्यङ्-मनुष्याणां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यग्मिथ्यादृष्टीनां वा, तथा आहारकसंयतानां वैक्रियसंयतानां वा । एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । नरकगतिप्रायोग्यां त्वष्टाविंशतिं बध्नतां त्रिंशदुदयः पञ्चेन्द्रियतिर्यङ्-मनुष्याणां मिथ्यादृष्टीनाम् । एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां मिथ्यादृशाम् । अष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च । तत्रैकविंशत्युदये वर्तमानानां देवगतिप्रायोग्याष्टाविंशतिबन्धकानां द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च । पञ्चविंशत्युदयेऽप्यष्टाविंशतिवन्धकानामाहारकसंयत-वे क्रियतियङ-मनुष्याणां सामान्येन ते एव द्वे सत्तास्थाने । तत्राहारकसंयतो नियमादाहारकसत्कर्मा ततस्तस्य द्विनवतिः सत्तास्थानाम् , शेषाश्च तिर्यञ्चो मनुष्या वा आहारकसत्काणः तद्रहिताश्च भवन्ति ततस्तेषां द्वे अपि सत्तास्थाने । पड्विंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशदुदगेष्वपि ते एव द्वे द्वे सत्तास्थाने सामान्योन वेदितव्ये । त्रिंशदुदये देवगति-नरकगतिप्रायोग्याष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथाद्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च । तत्र द्विनवतिरष्टाशीतिश्च प्रागिव भावनीया ।
१ सं० १ त० म० च ॥ २ मुद्रि० छा० ०प्त्या पर्याप्तानां प्राणा० ॥ ३ सं० म० मुद्रि० ०तानां वैक्रियतियंग म० ॥ ४ सं० १ त० म० ०ध्याश्च आ० ॥