________________
३०-३२ ]
चन्द्रर्षिमद्दत्तकृतं सप्ततिकाप्रकरणम् ।
२१६
नियमा 'दस्ति, यतो वैक्रियं हि साक्षादनुभवन् वर्तते इति न तदुद्वलयति, तदभावाच्च न देवद्विक-नरकद्विके अपि, समकालं वैक्रियपट्कस्योद्वलनसम्भवात् तथास्वाभान्यात्, वैक्रियपट्के चोलिते सति पश्चाद् मनुष्यद्विकमुद्वलयति न पूर्वम्, तथा चोक्तं चूण
वेच्छिक्कं उठवलेउं पच्छा मणुयदुगं उच्चले |
इत्यशीत्यष्टसप्ततिसत्तास्थानासम्भवः । पञ्चविंशत्युदयेऽपि पञ्चापि सत्तास्थानानि । तत्राष्टसप्ततिरवै क्रियाकायिक- तैजस्कायिकान् अधिकृत्य प्राप्यते नान्यान् यतस्तेजस्कायिकवायुकायिकवर्जोऽन्यः सर्वोऽपि पर्याप्तको नियमाद् मनुष्यगति- मनुष्यानुपूव्यों बध्नाति तथा चाह चूर्णिकृतऊवावज्जो पज्जत्तगो मणुयगईं नियमा बंधे, इति ।
ततोऽन्यत्राष्टसप्ततिर्न प्राप्यते । पविशत्युदयेऽपि पञ्चापि सत्तास्थानानि । नवरमष्टसप्ततिर - वैक्रियवायुकायिक-तैजस्कायिकानां द्वि-त्रि- चतुःपञ्चेन्द्रियाणां वा तेजो- वायुभवादनन्तरागतानां पर्याप्ताऽपर्याप्तानाम् ते हि यावद् मनुष्यगति- मनुष्यानुपूर्व्यो न बंध्नन्ति तावत् तेपामष्टसप्ततिः प्राप्यते नान्येषाम् । सप्तविंशत्युदये अष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि सप्तविंशत्युदयो हि तेजो- वायुवर्जपर्याप्तवाद केन्द्रिय-वै क्रियतिर्यङ्-मनुष्याणाम्, तेषां चावश्यं मनुष्यद्विकसम्भवादष्टस' तिर्न प्राप्यते ॥
9
अथ कथं तेजो-वायूनां सप्तविंशत्युदयो न भवति, येन तद्वर्जनं क्रियते ? उच्यते - सप्तविंशत्युदय एकेन्द्रियाणामातप उद्योतान्यतरप्रक्षेपे सति प्राप्यते, न च तेजो-वायुष्यातप उद्योदीदयः सम्भवति, ततस्तद्वर्जनम् ।
अष्टाविंशति - एकोनत्रिंशत् - त्रिंशत् एकत्रिंशदुदयेषु नियमादष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि | अष्टाविंशत्याद्युदया हि पर्याप्तविकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय मनुष्याणाम्, एकत्रिंशदुदयश्च पर्याप्तविकलेन्द्रिय- पञ्चेन्द्रियतिरश्चाम्, ते चावश्यं मनुजगति-मनुजानुपूर्वी सत्कर्माण इति । तदेवं त्रयोविंशतिबन्धकानां यथायोगं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्सङ्ख्यानि सत्तास्थानानि भवन्ति । पञ्चविंशति- पविशतिबन्धकानामप्येवमेव केवलं पर्याप्तै केन्द्रियप्रायोग्यपञ्चविंशति-पविशतिबन्धकानां देवानाम् एकविंशति-पविशति सप्तविंशति- अष्टाविंशति· एकोनत्रिंशत्-त्रिषडूपेषु षट्सूदयस्थानेषु द्विनवतिरष्टाशीतिच ेति द्वे द्वे सत्तास्थाने वक्तव्ये | अपर्याप्तविकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय- मनुष्यप्रायोग्यां तु पञ्चविंशतिं देवा न बध्नन्ति, अपर्याप्तेषु विकले -
१ सं० सं० १ ० म० ०दस्ति, वै० ॥ २ वैक्रियषट्कं उद्बलय्य पश्चाद् मनुजद्विकं उदूलयति ॥ ३ तेजो-वायुवर्जः पर्याप्तको मनुजगति नियमाद् बध्नाति ॥ ४ सं० १ त० म० प्रतिनवाप्य० ॥ ५ स० छा० -शति पञ्चविंशति सप्त० ॥