________________
२१८ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथा नेषु प्रत्येकमेतावन्ति बन्धस्थानानि एतावन्ति उदयस्थानानि एतापन्ति च सत्तास्थानानि एवं च तेषां परस्परं संवेध इत्यादेशः ॥३०॥ तत्र प्रथमतः सामान्येन संवेधचिन्तां कुर्वन्नाह
नव पंचोदय संता, तेवीसे पण्णवीस छव्वीसे । अट्ठ चउरहवीसे, नव 'सत्तगतीस तीसम्मि ॥३१॥ एगेगमेगतोसे, एगे एगुदय अह संतम्मि ।
उवरयबंधे दस दस, वेयगसंतम्मि ठाणाणि ॥३२॥ त्रयोविंशतिबन्धे पञ्चविंशतिबन्धे षड्विशतिबन्धे च प्रत्येकं नव नव उदयस्थानानि पञ्च पश्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्तकैकेन्द्रियप्रायोग्य एव, तद्वन्धकाश्च एकेन्द्रियद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिया मनुष्याश्च । एतेषां च त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा-एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पविशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् । तत्र त्रयोविंशतिबन्धकानामेकविंशत्युदयोऽपान्तरालगतो वर्तमानानामेकेन्द्रिय-द्वीन्दिय-त्रीन्द्रिय-चतुरिन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्याणामवसेयः, तेषामपयाप्ते केन्द्रियप्रायोग्यबन्धसम्भवाद् । चतुर्विंशत्युदयोऽपर्याप्त पर्याप्तेकेन्द्रियाणाम् , अन्यत्र चतुर्विंशत्युदयस्याप्राप्यमाणत्वात् । पञ्चविंशत्युदयः पर्याप्तकेन्द्रियाणां वैक्रियतिर्यङ्-मनुष्याणां च मिथ्या दृष्टयादीनाम् । षड्विशत्युदयः पर्याप्तकेन्द्रियाणां पर्याप्तापर्याप्त द्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पञ्चे न्द्रिय-मनुष्याणां चमिथ्या दृष्टीनाम् । सप्तविंशत्युदयः पयाप्तेकेन्द्रियाणां वैक्रियतिर्यङ्-मनुष्याणां शरीरपर्याप्त्या पर्याप्तानां च मिथ्यादृष्टीनाम् । अष्टाविंशति-एकोनत्रिंशत-त्रिंशदुदयाः पर्याप्तद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्याणां मिथ्यादृष्टीनाम् । एकत्रिंशदुदयो विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियाणां मिथ्यादृष्टीनाम् । उक्तशेषास्त्रयोविंशतिबन्धका न भवन्ति । तेषां च त्रयोविंशतिबन्धकानां सामान्येन पञ्च सत्तास्थानानि, तद्यथा-- द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । तवैकविंशत्युदये वर्तमानानां सर्वेपामपि पश्चापि सत्तास्थानानि, केवलं मनुष्याणामष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि वक्तव्यानि, यतोऽष्टसप्ततिर्मनुष्यगति-मनुष्यानुपूयोरुद्वलितयोः प्राप्यते, न च मनुष्याणां तदुद्वलनसम्भवः । चतुर्विंशत्युदयेऽपि पश्चापि सत्तास्थानानि, केवलं वायुकायिकस्य वैक्रियं कुर्वतश्चतुर्विंशत्युदये वर्तमानस्याशीति-अष्टसप्ततिवर्जानि त्रीणि सत्तास्थानानि यतस्तस्य वैक्रिवषट्कं मनुष्यद्विकं च
१ छा त० सत्तिगु० ॥ २ सं० मुद्रि० ०दृष्टीनाम् ।। ३ मुद्रि० त० म० ०न्द्रियाणां मनु० ॥ ४ त० म० दृष्टयादीनाम् ।।