________________
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
तदेवमुक्तानि सप्रभेदान्युदयस्थानानि । सम्प्रति सत्तास्थानप्ररूपणार्थमाह
तिनउई उगुनउई, अच्छलसी असीह उगुसीई । अयप्पणन्त्तरि, नव अट्ठ य नामसंताणि ।। २९ ।।
२७-३०]
२१७
नाम्नः - नामकर्मणो द्वादश सत्तास्थानानि तद्यथा - त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः पडशीतिः अशीतिः एकोनाशीतिः अष्टसप्ततिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टाविति । तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिः । सैव तीर्थकररहिता द्विनवतिः । त्रिनवतिरेवाहारकशरीराऽऽहारकाङ्गोपाङ्गा-ऽऽहारकसङ्घाता ऽऽहारकबन्धनरूपचतुष्टयेन रहिता एकोननवतिः । सेव तीर्थकररहिता अष्टाशीतिः । ततो नरकगति नरकानुपूर्व्यारथवा देवगति देवानुपूव्यरुद्वलितयोः पडशीतिः; अथवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बघ्नतो नरकगति नरकानुपूर्वी चे क्रियशरीरवैक्रियाङ्गोपाङ्ग-वैक्रिय सङ्घात- वै क्रियबन्धनबन्धे पडशीतिः अथवाऽशीतिसत्कर्मणो देवगतिप्रायोग्यं बनतो देवगति देवानुपूर्वी वै क्रियचतुष्टयबन्धे षडशीतिः । ततो नरकगति- नरकानुपूर्वी - वै क्रिय चतुष्टयोलने अथवा देवगति देवानुपूर्वी वैक्रिय चतुष्टयोलने कृते अशीतिः । ततो मनुजगति - मनुजानुपूर्यो रुद्वलितयोरष्टसप्ततिः । एतान्यक्षपकाणां सत्तास्थानानि । क्षपकाणां पुनरमूनित्रिनवतेः नरकगति- नरकानुपूर्वी तिर्यग्गति- तिर्यगानुपूर्वी - एकेन्द्रिय जाति-- द्वीन्द्रियजाति-त्रीन्द्रियजाति चतुरिन्द्रियजाति स्थावरा ऽऽतप उद्योत सूक्ष्म-साधारणरूपे त्रयोदशके क्षीणे अशीतिर्भवति, द्विनवतेः क्षीणे एकोनाशीतिः, एकोननवतेः क्षीणे षट्सप्ततिः, अष्टाशीतेः क्षीणे पञ्चसप्ततिः । मनुष्यगति - पञ्चेन्द्रियजाति- त्रस' - बादर पर्याप्त - सुभगा ऽऽदेय-यशः कीर्ति तीर्थकराणीति नवकं सत्तास्थानम्, तच्चायोगिकेवलिनस्तीर्थकरस्य चरमसमये वर्तमानस्य प्राप्यते । तदेवातीर्थंकरकेवलिनश्वरमसमये तीर्थकरनामरहितमष्टकमिति ॥ २९ ॥
तदेवमुक्तानि सत्तास्थानानि सम्प्रति संवेधप्रतिपादनार्थमुपक्रमते
अट्ठ य वारस वारस, बंधोदयसंतपय डिठाणाणि । ओहेण देसेण य, जत्थं जहासंभवं वि' भजे ॥३०॥
नाम्नो बन्धोदयसत्ताप्रकृतिस्थानानि यथाक्रममष्ट-द्वादश-द्वादशसङ्ख्यानि । तानि 'ओघेन' सामान्येन 'आदेशेन च' विशेषेण च 'यथासम्भवं' यानि यत्र यथा सम्भवन्ति तानि तत्र तथा 'विभजेत् ' विकल्पयेद् उत्तरग्रन्थानुसारेण । तत्रामुळं बन्धस्थानं बध्नत एतावन्ति उदयस्थानान एतावन्ति च सत्तास्थानानीति सामान्यम् । मिथ्यादृष्ट्यादिषु गुणस्थानेषु गत्यादिषु च मार्गणास्था
१ छा० मुद्रि० सनाम बाद० ।। २ सं १ त० म० नार्थमाह । ३ छा० मुद्रि० भए ||
28