________________
२३३
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[गाथाः प्रायोग्याण्येव द्रष्टव्यानि, तत्रैव सूक्ष्मपर्याप्तस्योत्पादसम्भवात् । एतेषां च स्वरूपं प्रागिव सप्रपञ्चं द्रष्टव्यम् । उदयस्थानानि चत्वारि, तद्यथा-एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः एड्विशतिश्च । तत्रैकविंशतिरियम्-तेजसं कामणम् अगुरुलघु स्थिरा-ऽस्थिरे शुभा-5मे वणोदिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम सूक्ष्मनाम पर्याप्तकनाम दुर्भगम् अनादेयम् अयशःकीर्तिरिति । एषा चैकविंशतिः सूक्ष्मपर्याप्तस्यापान्तरालगतौ वर्तमानस्य वेदितव्या, अत्रैको भङ्गः, प्रतिपक्षपदविकल्पस्यैकस्याप्यभावात् । अस्यामेवैकविंशती औदारिकशरीरं हुण्डसंस्थानम् उपघातं प्रत्येक साधारणयोरेकतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते तिर्यगानूपूर्वी चाप-. नीयते ततश्चतुर्विंशतिर्भवति, सा च शरीरस्थस्य प्राप्यते, अत्र प्रत्येक-साधारणाभ्यां द्वौ भङ्गो । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तावेव द्वौ भनौ । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्यासे क्षिप्ते पड्विंशतिः, अत्रापि तावेव द्वौ भङ्गौ । सर्वसङ्ख्यया सूक्ष्मपर्यातस्य चत्वार्यप्युदयस्थानान्यधिकृत्य भङ्गाः सप्त । पश्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः, अष्टसप्ततिश्च । केवलं पश्चविंशत्युदये षड्विशत्युदये च प्रत्येकं यः साधारणपदेन सह भङ्गस्तत्राष्टासप्ततिवर्जानि चत्वारि सत्तास्थानानि, वक्तव्यानि, शरीरपर्याप्त्या हि पर्याप्तस्तेजः-वायुवर्जः सर्वोऽपि मनुष्यगति मनुष्यानुपूयौँ नियमाद् बध्नाति, पञ्चविंशतिपड्विशत्युदयौ च शरीरपर्याप्त्या पर्याप्तस्य भवतः, ततः साधारणस्य सूक्ष्मपर्याप्तस्य पञ्चविंशत्युदये षड्विशत्युदये चाष्टासप्तति'नं प्राप्यते । प्रत्येकपदे पुनस्तेजः-वायुकायिकावप्यन्तर्भवत इति तदपेक्षया तत्राष्टसप्ततिलभ्यते । तदेवं साधारणपदानुगौ पञ्चविंशति-पड्विशतिसत्को द्वौ भङ्गो चतुःसत्तास्थानको, शेषास्तु पञ्च भङ्गाः पञ्चसत्तास्थानकाः ।
"पणगा हवन्ति तिन्नेव" अत्र 'बायरा" इति सम्बध्यते । पर्याप्तवादरैकेन्द्रियस्य पश्च बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशति पड्विंशतिः एकोनत्रिंशत् त्रिंशत् । एतानि तिर्यग्-मनुष्यप्रायोग्याणि, तानि च प्रागिव द्रष्टव्यानि । उदयस्थानानि पश्च, तद्यथा-एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिश्च, तत्रै कविंशतिरियम्-तेजसं कार्मणम् अगुरुलघु स्थिरा-स्थिरे शुभाऽऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम बादरनाम पर्याप्तकनाम दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीयोंरेकतरेति । एषा चैकविंशतिः पर्याप्तवादरस्यापान्तरालगतौ वर्तमानस्यावसेया, अत्र यशःकीर्ति-अयश कीर्तिभ्यां द्वो भङ्गौ । ततः शरीरस्थस्यौदारिकशरीरं हुण्डसंस्थानम् उपघातनाम प्रत्येक साधारणयोरेकतमिति प्रकृतिचतुष्टयं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विंश
१ स० २ त० म० नावाप्य० ॥